किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 657, कुल 707 में से
संदर्भ में पढ़ेंसप्तदशः सर्गः | ४०१
हिन्दी—पत्थरोंके समूहके शिवजीके बाणोंसे क्षय किये जानेपर अर्जुन ऊँचाई-से आकाश और दिङ्मण्डलोंको आच्छादित करनेवाले गाउ वृक्षसमूहको फेंकने लगे ॥ ६१ ॥
निःशेषं शकलितवल्कलाङ्गसारैः
कुर्वद्भिर्भुवमभितः कषायचित्राम् ।
ईशानः सकुसुमपल्लवैर्नगैस्ते-
रातेने बलिमिव रङ्गदेवताभ्यः ॥ ६२ ॥
मल्लि०—निःशेषमिति । ईशानः शिवः । शानच्प्रत्ययः । निःशेषं यथा तथा शकलितानि वल्कलानि त्वचोऽङ्गानि शाखाः सारो मज्जा च येषां तैर्भुवमभितः कषायो यो रागः । स्वरसेन रञ्जनमिति यावत् । 'रागे क्वाथे कषायोऽस्त्री' इति वैजयन्ती । तेन चित्रां विचित्रवर्णां कुर्वद्भिः सकुसुमपल्लवैस्तैर्वृक्षै रङ्गे रणरङ्गे या देवतास्ताभ्यो बलिं पूजामिव । आतेने ॥ ६२ ॥
हिन्दी—शिवजीने निःशेषरूपसे वल्कल, शाखाएं और मज्जाको खण्डित करने वाले और पृथिवीको चारों ओरसे रागसे विचित्र करनेवाले फूलों और पल्लवों-से युक्त वृक्षोंसे युद्धरूप रङ्गस्थलमें मानों देवताओंकी पूजा कर दिया ॥ ६२ ॥
उन्मज्जन्मकर इवामरापगाया
वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्या-
माजघ्ने विषमविलोचनस्य वक्षः ॥ ६३ ॥
मल्लि०—उन्मज्जन्निति । गाण्डीवी अर्जुनः । उन्मज्जन्नुत्तरन् मकरो जलग्रहविशेषोऽमरापगाया गङ्गाया इव बाणनद्या बाणप्रवाहद्वेगेन प्रतिमुखमभिमुखम् । एत्यागत्य कनकशिलानिभम् । 'कनक' ग्रहणं काठिन्यातिशयद्योतनार्थम् । विषमविलोचनस्य त्र्यम्बकस्य वक्षो हृदयं भुजाभ्यामाजघ्ने ताडितवान् । अत्रात्मनेपदं विचार्यम् । 'आङो यमहनः' इत्यत्राकर्मकाधिकारात् । 'स्वाङ्गकर्मकाच्च' इति वक्तव्यत्वात् । न च शिवस्य प्रतिमुखमित्यन्वयात् कनकशिलानिभं कनकनिकषतुल्यं श्यामं स्ववक्ष आजघ्न इत्यर्थ इति वाच्यम्, अनौचित्याचरणात् । न हि युद्धाय संनद्धा निपुणा अपि मल्लाः स्ववक्षस्ताडनमाचरन्ति, किं तु स्वभुजास्फालनम् । किञ्च,
२६ कि०