किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 658, कुल 707 में से
संदर्भ में पढ़ें४०२ | किरातार्जुनीयम्
अनन्तरं वक्ष्यमाणभवकर्तृकाविनयसहनरोधाङ्क एवैत्यन्वयस्याव्यवधानाच्च पूर्वेण दूषितत्वात् । अतः व्याकरणान्तराद् द्रष्टव्यम् । केचित्तु 'त्र्यम्बकस्य वक्षः प्राप' इत्यध्याहारं स्वीकृत्यात्मकर्मकत्वादात्मनेपदमाहुः ॥ ६३ ॥
हिन्दी—अर्जुनने गङ्गाके वेगसे पार करते हुए घड़ियालके समान बाणरूप नदीके प्रवाहसे वेगसे सम्मुख आकर सुवर्ण शिलाके सदृश शिवजीके वक्षःस्थलमें अपनी भुजाओंसे ताडन किया ॥ ६३ ॥
अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्यो- रसुगममरिसैन्यैरङ्कमभ्यागतस्य । जनक इव शिशुत्वे सुप्रियस्यैकसूनो- रविनयमपि सेहे पाण्डवस्य स्मरारिः ॥ ६४ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये सप्तदशः सर्गः ।
मल्लि०—अभिलषत इति । कीर्तिलक्ष्म्योरुपायं साधनभूतम् । अरिसैन्यैरसुगमं दुरासदं विक्रममभिलषतः । सूनुपक्षे—यत्किञ्चिन्महत्फलं प्रार्थयमानस्येत्यर्थः । अत एव, अङ्कमन्तिकमभ्यागतस्योत्सङ्गमारूढस्य च पाण्डवस्याविनयं स्मरारिः । अनेन भक्तवात्सल्यमेव सहनकारणमिति सूच्यते । शिशुत्वे शैशवे सुप्रियस्य परमप्रेमास्पदस्य । कुतः । एक एक सूनुस्तस्य एकसूनोरविनयं जनक इव सेहे सोढवान् ॥ ६४ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां सप्तदशः सर्गः समाप्तः ।
हिन्दी—कीर्ति और लक्ष्मीके साधनभूत शत्रुसैन्यसे दुष्प्राप्य पराक्रमका अभिलाष करते हुए अत एव सम्मुख आये हुए अर्जुनकी ढिठाईको शिवजीने जैसे गोदमें बैठे हुए किसी उत्तमवस्तुकी प्रार्थना करनेवाले शैशवमें अतिशय प्रिय एकमात्र पुत्रके अविनय (ढिठाई) को पिता सहन करता है उसी तरह सहन कर लिया ॥ ६४ ॥
किरातार्जुनीयकाव्यके अनुवादमें सत्रहवाँ सर्ग पूरा हुआ ।