भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 659, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 659

अष्टादशः सर्गः

तत उदग्र इव द्विरदे मुनौ रणमुपेयुषि भीमभुजायुषे ।
धनुरपास्य सबाणधि शंकरः प्रतिजघान घनैग्वि मुष्टिभिः ॥ १ ॥

मल्लि०—तत इति । ततो मुष्टिनियुद्धानन्तरम् । उदग्रे महति द्विरदे गज इव भीमे भुजावेव आयुधे यस्य तथाभूते रणमुपेयुषि मुनौ शंकरः स्वयमपि सबाणधि सतूर्णं धनुरपास्य त्यक्त्वा मुष्टिभिर्घनैर्लोहमुद्गरैरिव प्रतिजघान । प्राङ्मुनिकृता-घातस्य प्रतिघातं कृतवानित्यर्थः । 'घनाः कठिनसंघातमेघकाठिन्यमुद्गराः' । इति वैजयन्ती । 'घनस्तु लोहमुद्गरे' इति विश्वः ! यद्यपि 'मुष्टि' शब्दः 'मुष्ट्या तु बद्धया । सरत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना' । इत्यमरः । इत्युभयथा प्रयोगाद् द्विलिङ्गस्तथाप्यत्रोपमानसारूप्यात् पुंलिङ्गो ग्राह्यः । द्रुतविलम्बितं वृत्तम् ।

हिन्दी—तब ऊँचे हाथोके समान भयंकर हस्तरूप आयुधवाले तथा युद्धभूमिमें प्राप्त तपस्वी (अर्जुन) को शिवजीने तरकशके साथ धनुको छोड़कर लोहमुद्गरके समान मुष्टियोंसे प्रत्याघात किया ॥ १ ॥

हरपृथासुतयोर्ध्वनिरुत्पतन्भृदुसंवलिताङ्गुलिपाणिजः ।
स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभूतः ॥ २ ॥

मल्लि०—हरेति । हरपृथासुतयोः शिवाजुनयोर्भृदु निबिडं यथा तथा संव-लिताः संघटिता अङ्गुलयो येषां ते । मुष्टिकृता इत्यर्थः । तेषु पाणिषु जात-स्तथोक्तः । स्फुटन्तीनां विदलन्तीनामनल्पशिलानामारव इव दारुणो भीषणो ध्वनिरुत्पतन् उदगच्छन् दरीभूतो गिरेर्दारीषु गुहासु प्रतिननाद प्रतिदध्वान ॥ २ ॥

हिन्दी—शिवजी और अर्जुनके दृढ़तापूर्वक संघटित अंगुलियोंसे युक्त हाथोंमें उत्पन्न, विदलित होते हुए बड़े पत्थरोंकी आवाजके समान भयंकर ध्वनि प्रकट होती हुई पर्वतकी गुफाओंमें प्रतिध्वनित होने लगी ॥ २ ॥

शिवभुजाहतिमिश्रपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः ।
क इव नाम बृहन्मनसां भवेदनुकृतेरपि सत्त्ववतां क्षमा ॥ ३ ॥