किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 660, कुल 707 में से
संदर्भ में पढ़ें| ४०४ | किरातार्जुनीयम् |
|---|
मल्लि०--- शिवेति । कपिध्वजः शिवस्य भुजाहतिभिर्मुष्टिघातैर्भिन्ना विदीर्णा याः पृथ्वो महत्यः क्षतयः प्रहारा व्रणास्ताः सुखमिवानुबभूव । दुःखकरीरपीति भावः । क्षतिदुःखं नाजीगणदित्यर्थः । ननु दुःसहदुःखवेगेषु कथमगणनेत्यत्राह—क इति । क इव नाम को नु खलु सत्त्ववता सत्त्वाधिकानां बृहन्मनसां तेजस्विनाम् । अनुकृतेरनुकरणस्यापि क्षमो भवेत् । मनस्विनां चरितं नटवदनुकर्तुमपि न कश्चिदीष्टे, तस्याचरणं तु दूरापास्तमिति भावः । रौद्ररसाविष्टमनसां मनस्विनां कुतः सुखदुःखगणनेति भावः ॥ ३ ॥
हिन्दी—अर्जुनने शिवजीके मुष्टिप्रहारोंसे विदीर्ण विशाल व्रणोंको सुखके समान अनुभव किया, बलसे अधिक, तेजस्वियोंका कौन अनुकरण मात्र करनेमें भी समर्थ है ? ॥ ३ ॥
व्रणमुखच्युतशोणितशीकरस्थगितशैलतटाभभुजान्तरः ।
अभिनवौषसरागभृता बभौ जलधरेण समानमुमापतिः ॥ ४ ॥
मल्लि०—व्रणेति । व्रणमुखेभ्यश्च्युतस्य क्षरितस्य शोणितस्य शीकरैः स्थगितमावृतं शैलतटाभं शिलासदृशं भुजान्तरं वक्षो यस्य स तथोक्त उमापतिरभिनवमौषसरागं सन्ध्यारागं बिभर्तीति तथोक्तेन जलधरेण समानं तुल्यं यथा तथा बभौ वित्यूपमा ॥ ४ ॥
हिन्दी—व्रणके मुखोंसे गिरे हुए रुधिरके कणोंसे व्याप्त पर्वतके तटके समान वक्षःस्थलवाले शिवजी नये सन्ध्यारागको धारण करनेवाले मेघके समान शोभित हो गये ॥ ४ ॥
उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः ।
भृशरया इव साह्यमहीभृतः पृथुनि रोधसि सिन्धुमहॉर्मयः ॥ ५ ॥
मल्लि०—उरसीति । शूलभृतः शिवस्य । उरसि प्रहिताः प्रयुक्ता अर्जुनस्य मुष्टयः पृथुनि विशाले साह्यमहीभृतः सह्याद्रे रोधसि तटे भृशरयास्तीव्रवेगाः सिन्धोः समुद्रस्य महोर्मय इव मुहुः प्रतिहतिं ययुः ॥ ५ ॥
हिन्दी—शिवजीके वक्षःस्थलमें अताडित अर्जुनकी मुष्टियां साह्यपर्वतके विशाल तटमें तीव्र वेगवाली समुद्रकी बड़ी-बड़ी तरंगोंके समान प्रत्याघातको प्राप्त हुईं । ५ ।
निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः ।
त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ॥ ६ ॥