किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 661, कुल 707 में से
संदर्भ में पढ़ेंअष्टादशः सर्गः ४४२
**मल्लि०—**निपतित इति । अयुगानि चक्षूंषि यस्य तस्य अयुगचक्षुषस्त्रिलोचनस्य । आयते दीर्घे अरत्नियुगे अरत्न्योर्बद्धमुष्ट्योर्हस्तयोर्युगे युग्मे । 'मुष्ट्या तु बद्धया । सरत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना' इत्यमरः । प्रकृते तु मुष्टिमात्रविवक्षया प्रयोगः । शिरोधरायामिति अधिशिरोधरमधिकंधरं समं युगपन्निपतिते सति । किरीटिनाऽर्जुनेन मदादिव त्रीणि चत्वारि वा त्रिचतुराणि । 'संख्ययाव्ययासन्न—' इत्यादिना बहुव्रीहिः । चतुरोऽच्प्रकारे, 'त्र्युपाभ्यामुपसंख्यानम्' इति समासान्तोऽच्प्रत्ययः । तेषु त्रिचतुरेषु पदेषु लुलितदृष्टि घूर्णितनेत्रं यथा तथा चस्खले स्खलितम् । भावे लिट् ॥ ६ ॥
**हिन्दी—**शिवजीके दीर्घ दो बद्धमुष्टियोंवाले हाथोंके गर्दनपर पड़नेपर अर्जुन मानो मदसे तीन चार पगोंमें घूर्णित नेत्रोंसे युक्त होकर स्खलित हो गये ॥ ६ ॥
अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा ।
भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ ७ ॥
**मल्लि०—**अभिभवेति । अभिभवेनोक्तरूपेण परिभवेन उदित उत्पन्नो यो मन्युः क्रोधस्तेन विदीपितः प्रज्वलितः सोऽर्जुनो भृशं जवं समभिसृत्य समभिद्रुत्य ओजसा बलेन शशिकलाभरणस्येन्दुमौलेः शिवस्य भुजद्वयं भुजयुगेन विभज्य वियोज्य समाददे जग्राह ॥ ७ ॥
**हिन्दी—**नये परिभवसे उत्पन्न क्रोधसे प्रदीप्त किये गये अर्जुनने वेगके बलसे शिवजीके पास जाकर उनके दोनों हाथोंको अपने दोनों हाथोंसे वियुक्त कर पकड़ लिया ॥ ७ ॥
प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः ।
करणशृङ्खलसंकलनागुरुर्गुरुभुजायुधगर्वितयोस्तयोः ॥ ८ ॥
**मल्लि०—**प्रववृते इति । अथ महाहवे महारण मल्ल्योर्बलीयसोः । 'मल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि' इति विश्वः । गुरू भुजावेव आयुधं तेन गर्वितयोस्तयोः शिवार्जुनयोः करणानि करचरणबन्धनान्येव शृङ्खलानि तेषां संकलना संघटना तया गुरुर्दुस्तरस्तस्याऽचलस्य हिमाद्रेः संचलनं कम्पस्तस्याहरण आरोपकः । कर्तरि ल्युट् । रणः प्रववृते प्रवृत्तः ॥ ८ ॥
**हिन्दी—**तब महायुद्धमें अधिक बलशाली, विशाल बाहुरूप आयुधसे गर्वित शिवजी और अर्जुनके कर चरणरूप शृङ्खलाओंके संघटनासे दुस्तर हिमालयको कम्प और आरोपण करनेवाला युद्ध होने लगा ॥ ८ ॥