भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 664, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 664

४०८ किरातार्जुनीयम्

तपसा तथा न मुदमस्य ययौ भगवान्यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तमहो ! निजमेव सत्त्वमुपकारि सताम् ॥ १४॥

**मल्लि०—**तपसेति । भगवान् देवः । अस्यार्जुनस्य विपुलसत्त्वतया बहुसत्त्व-संपदा धैर्यसंपत्त्येति यावत् । यथा मुदं ययौ तथा तपसा मुदं न ययौ । तथा हि—सतां गुणसंहतेस्तपःसेवादिगुणसंघातात् समतिरिक्तम्‌अतिशयितं निजं सत्त्वमेवेष्टकार्यमुपकारकमहो ! प्रमिताक्षरा वृत्तम् ॥ १४ ॥

**हिन्दी—**भगवान् (शिवजी) अर्जुनके प्रचुर बल सम्पत्ति होनेसे जिस तरह प्रसन्न हुए उस तरह उनकी तपस्यासे प्रसन्न नहीं हुए, जैसे कि सज्जनोंका तपस्या और सेवा आदि गुणसमूहसे अतिरिक्त अपना बल ही उपकार करनेवाला होता है ॥ १४ ॥

अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया ।
स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥ १५ ॥

**मल्लि०—**अथेति । अथ हिमशुचिना हिमशुभ्रेण भस्मना भूषितं शिरसीन्दुलेखया विराजितं शोभितम् अतिमनोहरं सुन्दरं स्ववपुर्दधतं किरातरूपं विहाय निजविग्रहं दधानं हरमुदीक्ष्य पाण्डवो ननाम प्रणतवान् । अपरवक्त्रं वृत्तम्—'अयुजि ननरला गुरुः समे तदपरवक्त्रमिदं नजौ जरौ' । इति लक्षणात् ॥ १५ ॥

**हिन्दी—**तब बर्फके समान सफेद भस्मसे भूषित, शिरपर चन्द्रकलासे शोभित अतिशय सुन्दर अपने शरीरको धारण करते हुए शिवजीका दर्शन कर पाण्डव-(अर्जुन) ने प्रणाम किया ॥ १५ ॥

सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् ।
निहितमपि तथैव पश्यन्नसि वृषभगतिरुपाययौ विस्मयम् ॥ १६ ॥

**मल्लि०—**सहेति । वृषभस्येव गतिर्यस्य सोऽर्जुनस्तस्मिन्समये सहशरधिभ्यां वर्तत इति सहशरधि सनिषङ्गम् । 'वोपसर्जनस्य' इति विकल्पात् 'सह' शब्दस्य न सभावः । निजं कार्मुकं गाण्डीवं तथैव पूर्ववदेव संवर्मितं सम्यक्कवचितमतनु महन्निजं वपुस्तथैव निहितं यथापूर्वं स्थापितमपि खड्गं च तथैव पश्यन् विस्मयमुपाययौ । क्वचित्तु 'वृषभगतिम्' इति पाठः । तत्र वृषभगतिं शिवं न पश्यन् विस्मयमुपाययावित्यर्थः । प्रमुदितवदना वृत्तम्—'प्रमुदितवदना भवेन्नौ ररौ' । इति लक्षणात् ॥ १६ ॥

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 664, कुल 707 में से · BharatKosha