किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 663, कुल 707 में से
संदर्भ में पढ़ें| अष्टादशः सर्गः | ४०७ |
|---|
पार्थयोश्चरणपातः पादक्षेपैर्निपातितानि रोधांसि यासां ताः सरितो नद्यः स्थलीः परितः स्थलीषु प्रसस्रुः प्रसृताः । 'अभितः परितः—' इत्यादिना द्वितीया । 'जानपद-' इत्यादिनाऽकृत्रिमार्थे ङीप् । कूलपातक्षोभादुद्वेलसलिलाः सरितः स्थलानि प्रभञ्जयन्तीत्यर्थः । एतेन तयोर्भार उक्तः ॥ ११ ॥
हिन्दी—हाथों और पैरोंके वन्धनसे छूटे हुए, नाल ठोककर सुन्दर रूपसे उछलते हुए उन शिवजी और अर्जुनके चरणोंसे आहत तटवाली नदियाँ उस स्थानके चारों ओर बहने लगीं ॥ ११ ॥
वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः । चरणयोरचरणानमितक्षितिनिजगृहे तिसृणां जयिनं पुराम् ॥ १२ ॥
मल्लि०—वियतीति । वियत्यन्तरिक्षे वेगेन परिप्लुतमुत्पतितं तिसृणां पुरां जयिनं त्रिपुरान्तकम् । 'जिदृक्षो—'त्यादिनेनिप्रत्ययः । कपिध्वजोऽर्जुनश्चरणा- भ्यां पादाभ्यामानमितक्षितिः सन् । रयेण वेगेन समभिसृत्याभिद्रुत्य, अन्तरा मध्ये- मार्गं चरणयोः पदयोर्निजगृहे निगृहीतवान् । उत्पतितस्य भगवतश्चरणौ स्वकरा- भ्यां जग्राहेत्यर्थः ॥ १२ ॥
हिन्दी—अन्तरिक्षमें वेगसे उछले हुए त्रिपुरविजयी शिवजीके दोनों पैरोंको जमीनको झुकाते हुए अर्जुनने वेगसे सम्मुख जाकर मार्गके बीचमें पकड़ लिया ॥ १२ ॥
विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् । क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ १३ ॥
मल्लि०—विस्मित इति । तेन कर्मणा चरणग्रहणरूपेण सपदि विस्मितः सविस्मयः कर्मणां क्षयकरः । मोक्षप्रदः इत्यर्थः । परः पुमान् हरोऽवनौ क्षितौ क्षेप्तुं कामो यस्य तम् । 'तुं काममनसोरपि' इति मकारलोपः । अक्लममक्लान्तं तं पार्थं वक्षसा परिरभ्य निष्पिपेष । गाढमालिश्लिषेत्यर्थः । रथोद्धता वृत्तम् ॥ १३ ॥
हिन्दी—अर्जुनके चरणग्रहणरूप उस कर्मसे उस क्षणमें आश्चर्ययुक्त होकर कर्मोंका क्षय करनेवाले अर्थात् मोक्ष देनेवाले परमपुरुष शिवजीने अर्जुनको जमीन- पर पटकनेकी इच्छा करके और ग्लानिरहित उनको छातीसे आलिङ्गन कर पीस डाला ॥ १३ ॥