भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 663, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 663
अष्टादशः सर्गः४०७

पार्थयोश्चरणपातः पादक्षेपैर्निपातितानि रोधांसि यासां ताः सरितो नद्यः स्थलीः परितः स्थलीषु प्रसस्रुः प्रसृताः । 'अभितः परितः—' इत्यादिना द्वितीया । 'जानपद-' इत्यादिनाऽकृत्रिमार्थे ङीप् । कूलपातक्षोभादुद्वेलसलिलाः सरितः स्थलानि प्रभञ्जयन्तीत्यर्थः । एतेन तयोर्भार उक्तः ॥ ११ ॥

हिन्दी—हाथों और पैरोंके वन्धनसे छूटे हुए, नाल ठोककर सुन्दर रूपसे उछलते हुए उन शिवजी और अर्जुनके चरणोंसे आहत तटवाली नदियाँ उस स्थानके चारों ओर बहने लगीं ॥ ११ ॥

वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः । चरणयोरचरणानमितक्षितिनिजगृहे तिसृणां जयिनं पुराम् ॥ १२ ॥

मल्लि०—वियतीति । वियत्यन्तरिक्षे वेगेन परिप्लुतमुत्पतितं तिसृणां पुरां जयिनं त्रिपुरान्तकम् । 'जिदृक्षो—'त्यादिनेनिप्रत्ययः । कपिध्वजोऽर्जुनश्चरणा- भ्यां पादाभ्यामानमितक्षितिः सन् । रयेण वेगेन समभिसृत्याभिद्रुत्य, अन्तरा मध्ये- मार्गं चरणयोः पदयोर्निजगृहे निगृहीतवान् । उत्पतितस्य भगवतश्चरणौ स्वकरा- भ्यां जग्राहेत्यर्थः ॥ १२ ॥

हिन्दी—अन्तरिक्षमें वेगसे उछले हुए त्रिपुरविजयी शिवजीके दोनों पैरोंको जमीनको झुकाते हुए अर्जुनने वेगसे सम्मुख जाकर मार्गके बीचमें पकड़ लिया ॥ १२ ॥

विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् । क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ १३ ॥

मल्लि०—विस्मित इति । तेन कर्मणा चरणग्रहणरूपेण सपदि विस्मितः सविस्मयः कर्मणां क्षयकरः । मोक्षप्रदः इत्यर्थः । परः पुमान् हरोऽवनौ क्षितौ क्षेप्तुं कामो यस्य तम् । 'तुं काममनसोरपि' इति मकारलोपः । अक्लममक्लान्तं तं पार्थं वक्षसा परिरभ्य निष्पिपेष । गाढमालिश्लिषेत्यर्थः । रथोद्धता वृत्तम् ॥ १३ ॥

हिन्दी—अर्जुनके चरणग्रहणरूप उस कर्मसे उस क्षणमें आश्चर्ययुक्त होकर कर्मोंका क्षय करनेवाले अर्थात् मोक्ष देनेवाले परमपुरुष शिवजीने अर्जुनको जमीन- पर पटकनेकी इच्छा करके और ग्लानिरहित उनको छातीसे आलिङ्गन कर पीस डाला ॥ १३ ॥