किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 82, कुल 707 में से
संदर्भ में पढ़ें५२ किरातार्जुनीयम् [प्रथमः
नन्वन्तःशत्रुत्वादयं क्रोधस्त्याज्य एवेत्याशङ्क्याह- अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः। अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्वषादरः॥३३॥
अवन्ध्येति। अवन्ध्यः कोपो यस्य तस्यवन्ध्यकोपस्यात एवापदां विहन्तुः, निग्रहानुग्रहसमर्थस्येत्यर्थः। पुंस दति शेषः। देहिनो जन्तवः स्वयमेष वश्या वशङ्गता भवन्ति। ‘वंश गतः’ इति यत्प्रत्ययः। अतस्त्वया कोपिना भवितव्यमित्यर्थः। व्यतिरेके त्वनिष्टमाचष्टे—अमर्षशून्येनव निःकोपेन जन्तुना। कन्यया शोक इतिवत् ‘हेतौ’ इति तृतीया। हृदयस्य कर्म हार्दं स्नेहः। ‘प्रेमा ना प्रियता हार्दं प्रेम स्नेहः’ इत्यमरः। युवादिOrigin/त्वाद्ण्। ‘हृदयस्य ‘हल्लेखयदण्लासेषु’ इति हृदादेशः। जातहार्देन जातस्नेहेन सता जनस्यादरो न। विद्विषा द्विषता च सता दरो न। अमर्षहीनस्य रागद्वेषावकि- ञ्चित्करत्वादगण्यावित्यर्थः। अथवा विद्विषासता दरो भयन्न। ‘दरोऽस्त्रियां भये श्वभ्रे’ इत्यमरः। एतस्मिन्नेव प्रयोगे सन्धिवशात् द्विधा पदच्छेदः। पुंवाक्येषु न दोषः। अतः स्थाने कोपः कार्यः, त्याज्यस्त्वस्थाने कोप इति भावः॥३३॥
अन्वयः-अवन्ध्यकोपस्य, आपदां, विहन्तुः देहिनः, स्वयम्, एव, वश्या, भवन्ति, अमर्षशून्येन, जन्तुना, जातहार्देन, (सता) जनस्य, आदरः, न (भवति) वा, विद्विषा, (सता) दरः, न (भवति) ॥३३॥
सुधा-अवन्ध्यकोपस्य=अमोघामर्षस्य, सफलक्रोधस्येति भावः। आपदां = विपदाम्, विहन्तुः = संहारकस्य, जनस्येति शेषः। देहिनः = प्राणिनः, स्वयमेव = आत्मनैव, वश्याः=अधीनाः, भवन्ति=जायन्ते, अथ च, अमर्षशून्येन=क्रोधहीनेन, जन्तुना = जनेन, जातहार्देन=प्राप्तप्रेरणाऽपि, सता, आदरः= सम्मानः न हि (भवति)। तथा च तादृशेन जनने, विद्विषा=विरोधिनाऽपि समं, दरः = भयं, न (भवति)। अर्थात् दुर्योधनस्तु क्रोधावसरे च हर्षं करोति, तेन तस्यावश अपि वशीभूताः। भवान् वैराग्य भजन वने वसन्मुनिरिव क्रोधामर्षविहीनोऽस्ति, कदाचिच्चेत्क्रोधोऽपि जायते, तदा क्षणमेव स विलीनो भवति, क्रोधहेतुमति क्रोधफलं न पातयति, शान्तचित्तत्वात्, अतो ये दुर्योधनादयः पूर्वं वशेऽतिष्ठन्, तेऽपि स्वतन्त्राः, प्रत्युत भवन्तं वशिनमेव वशं कुर्वन्तीति नोचितम्, क्षत्रियकुलेऽवतीर्य, स्वकुलोचितां प्रकृतिं भजन्नेव जनो राजते ॥३३॥