कुलार्णव तन्त्र (हिन्दी व्याख्या सहित)
Kularnava Tantra with Hindi Commentary
भगवान शिव / पं. भद्रशील शर्मा द्वारा
स्रोत: कल्याण मन्दिर प्रयाग · कल्याण मन्दिर प्रयाग · 1950 (उद्गम)
पृष्ठ 46, कुल 84 में से
संदर्भ में पढ़ें४० हिन्दी कुलार्णव नन्दन्तु साधकाः सर्वे नश्यन्तु कुलदूषकाः । अवस्था शाम्भवीयास्तु प्रसन्नोऽस्तु गुरुः सदा ॥ यद्येषा भैरवी देवी यदि भैरवशासनम् । यद्येष कुलधर्मः स्यात्तदा नश्यन्तु दूषकाः ॥ यासामाज्ञाप्रभावेण स्वास्थितं भुवनत्रयम् । नमस्ताभ्यः समस्ताभ्यो योगिनीभ्यो निरन्तरम् ॥ याश्चक्रमभूमिकावसतयो नाड़ीषु याः संस्थिताः याः कायोद्गतरोगकूपनिलया याः संस्थिता धातुषु । उच्छ्वासोर्मिमहातरङ्गनिलया निःश्वासवासाश्च या- स्ता देव्यो रिपुपक्षभक्षणपरास्तृप्यन्तु मन्त्रार्चिताः ॥ या देव्यः कुलसम्भवाः क्षितिगता या देवतास्तोयगा या नित्या मुदितप्रभा निधिगता या या भुवि प्रस्थिताः । या व्योमाहितमण्डलामृतमया याः सर्वगाः सर्वदाः ता देव्यः कुलमार्गपालनपराः शान्तिं प्रयच्छन्तु मे ॥ ब्रह्मा श्रीः शेषदुर्गागुहवटुकगणा भैरवाः क्षेत्रपाद्या रुद्रादित्या ग्रहास्ते वसुपितृमुनयः सिद्धयो गुह्यकाद्याः । भूता गन्धर्वविद्याधरऋषिपितरः किन्नरा । यक्षनागा योगीशाश्चारणाद्याः सुरकरनिकराः पूजने सन्तु तुष्टाः ॥ देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो वटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः । अन्ये भूचरखेचरा दिशिचरा वेतालकाश्चेटका- स्तृप्यन्तां कुलपुत्रकस्य पितरः पीत्वा समीपे चरुम् । ऊर्ध्वे ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वा तले वा सलिलपवनयोर्यत्र कुत्र स्थितो वा । तीर्थे पीठोपपीठादिषु च कृतपदास्ते सुराः सर्वपूज्या— स्तृप्यन्तु ज्ञानदेव्यस्त्वलिबलिपिशितैर्धूपदीपादिकेन ॥