कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 104, कुल 268 में से
संदर्भ में पढ़ें( ८५ ) PURPORT IN SANSKRIT :-सोऽतिथियथाविधि कृतां पार्वत्याः पूजां स्वीकृत्य, किञ्चित्कालञ्च श्रममपनीय, पार्वतीं रागादिरहितेनैव निर्दोषेण नेत्रेणावलोकयन् सदाचारपरिपाटी- मनुलंघयन् कथयितुमारेभे ॥ ३२ ॥ अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ ३३ ॥ अपीति । अत्रापि शब्दः प्रश्ने । क्रियार्थं होमादिकर्मानुष्ठा- नार्थम् । समिधश्च कुशाश्च समित्कुशम् । 'जातिरप्राणिनाम्' इति द्वन्द्वैकवद्भावः । सुलभं अपि सुलभं कच्चित् । जलानि ते तव स्नान- विधिक्षमाणि स्नानक्रियायोग्यानि अपि कच्चित् । किञ्च स्वशक्त्या निजसामर्थ्यानुसारेण तपसि प्रवर्त्तसे अपि । देहमपीडयित्वा तपश्च- रसि कच्चिदित्यर्थः । युक्तं च नामैतत् । खलु यस्मात् शरीरं आद्यं धर्मसाधनम् । धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहुभिः साध्यते । तेषु च वपुरेव मुख्यं साधनम् । सति देहे धर्मार्थकाम- मोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते । अतएव 'सततमात्मानमेव गोपायीत्' इति श्रुतिः । 'अयथाबलमारम्भो निदानं क्षयसंपदाम्' इति भावः ॥ ३३ ॥ PROSE ORDER :-अपि क्रियार्थं समित्कुशं सुलभम् ? अपि जलानि ते स्नानविधिक्षमाणि ? अपि स्वशक्त्या तपसि प्रवर्त्तसे ? खलु शरीरं आद्यं धर्मसाधनम् ( अस्ति ) ॥ ३३ ॥ NOTES :-अपि-कच्चित् It is used here in the sense of interrogation. For its various senses Cf. 'गर्हास-