भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 107, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 107

( ८८ ) कोऽस्ति ? त्वया स्वास्थ्यमनादृत्य तपो न करणीयमिति भावः ' ॥ ३३ ॥ अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ ३४ ॥ अपीति । त्वदावर्जितवारिसंभृतं त्वयावर्जितेन सिक्तेन वारिणा संभृतं जनित आसां वीरुधां लतानां प्रवालं पल्लवं अनुबन्धि अपि अनुस्यूतं किम् । यत् प्रवालं चिरोज्झितश्चिरकालत्यक्तो लाक्षारागो येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्त- कपाटलेन ते तव दन्तवाससा अधरेण । ' ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ' इत्यमरः । तुलां साम्यं आरोहति । गच्छतीत्यर्थः । अत्र तुलाशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि ' तुल्यार्थैरतुलोप- माभ्याम् ' इति न तृतीयाप्रतिषेधः तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति ॥ ३४ ॥ PROSE ORDER:—अपि त्वदावर्जितवारिसंभृतं आसां वीरुधां प्रवालं अनुबन्धि ( अस्ति ) यत् चिरोज्झितालक्तकपाटलेन ते दन्तवाससा तुलां आरोहति ॥ ३४ ॥ NOTES —त्वदावर्जितवारिसंभृतम् । आवर्जितं—( आ + √ वृज् + क्तः ) सिक्तम् sprinkled. √वृज् ' to avoid, ' here with आ means ' to sprinkle ' संभृतम्—( सं + √भृञ् + क्तः ) Nourished, reared. त्वया आवर्जितेन वारिणा संभृतं reared by water sprinkled by you. त्वत् is formed by changing युष्म of युष्मत् into त्व by ' प्रत्ययोत्तरपदयोश्च ' पा० ७ २ ९८ । वीरुधाम्—लतानाम् of creepers The word