कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 121, कुल 268 में से
संदर्भ में पढ़ें( १०२ ) यतः सतां संनतगात्रि संगतं मनीषिभिः साप्तपदीनमुच्यते ॥ ३९ ॥ संप्रति मनोरथं जिज्ञासुः प्रस्तौति । प्रयुक्तेति । आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं प्रयुक्तसत्कारविशेषं मां पर अन्यं संप्रतिपत्तुं अवगन्तुं न अर्हसि । हे संनतगात्रि संन- ताङ्गि । ‘अङ्गगात्रकण्ठेभ्यः’ इति वक्तव्यान् ङीप् । यतः कारणात् मनस ईषिभि मनीषिभिः विद्वद्भिः । शकन्ध्वादित्वात्साधु । सतां संगत सख्यं सप्तभिः पदैः आप्यते इति साप्तपदीनं सप्तपदोच्चारण- साध्यं उच्यते । तच्चावयोरुत्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः । ‘साप्तपदीनं सख्यम्’ इति निपातनात्साधुः ॥ ३६ ॥ PROSE ORDER —आत्मना प्रयुक्तसत्कारविशेष मां परं संप्रतिपत्तुं न अर्हसि, (हे) संनतगात्रि, यतः मनीषिभिः सतां सङ्गतं साप्तपदीनं उच्यते ॥ ३६ । NOTES —आत्मना—स्वयं by thee thyself i e, not through any attendant or other person प्रयुक्तसत्कार- विशेषं—प्रयुक्तः (कृतः) सत्कारस्य विशेषो यस्मै स, तम् to whom special hospitality has been done परं—अन्यं a different person, a stranger संप्रतिपत्तुं—(सं प्रति+ √पद् + तुमुन्) बोद्धु to know; to regard. Infinitive of √पद् to go, but with प्रति ‘to know.’ संनतगात्रि—सं (सम्यङ्) नतानि गात्राणि यस्याः सा संनतगात्री, तस्याः सम्बो- धने संनतगात्रि (सुन्दराङ्गि) having the body bent or stooping; having rounded limbs; beautiful. ‘नतं चारु सन्नतम्’ इति भाजः । ङीष् is added to form the feminine by the vartika ‘अङ्गगात्रकण्ठेभ्यः वक्तव्यम्’ i e. of