कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 124, कुल 268 में से
संदर्भ में पढ़ें( १०५ ) अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ ४० ॥ अत इति। हे तपोधने अतः सख्याद्धेतोः अत्र प्रस्तावे बहुक्षमां बहुक्लिमहाम् । यद्वा क्षमावतीं भवतीं त्वां द्विजातिभावाद् ब्राह्मत्वाद् उपपन्नचापलः सुलभधाष्ट्र्यः अयं जनः । स्वयमित्यर्थः । किञ्चित् प्रष्टुं मनो यस्य स प्रष्टुमनाः प्रष्टुकामः । ‘तुं काममन- सोरपि' इति मकारलोप । रहसि भवं रहस्यं गोप्यं न चेत् प्रति- वक्तुं अर्हसि ॥ ४० ॥ PROSE ORDER :—( हे ) तपोधने, अत्र द्विजातिभावाद् उपपन्नचापलः अयं जनः बहुक्षमां भवतीं किञ्चित् प्रष्टुमनाः (अस्ति) चेद् रहस्यं न प्रतिवक्तुं अर्हसि ॥ ४० ॥ NOTES :—तपोधने—तप एव धनं यस्याः सा तपोधना, सम्बोधने तपोधने, whose treasure consists of penance. अत्र—तपःसम्बन्धे i e, with regard to your penance. द्विजातिभावात्—(√जन्+क्तिन्=जानिः) द्वे जाती ( जन्मनी ) यस्य स द्विजातिः, तस्य भावः द्विजातिभावः, तस्मात् on account of my being a Brahmana द्विजाति means those who have two births viz., one from the mother and the other from the preceptor in the form of initiation. Hence it indicates the first three castes Cf ‘मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः।’ मनु० २.१६६ । But, here it means the Brahmana class alone. Ablative is used in the sense of cause. Shiva means to say that Brahmanas are inquisitive by their nature and that he was not an exception