भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 126, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 126

( १०७ ) ENGLISH TRANSLATION —Hence, O one whose riches consist of penance, this I, in whom curiosity is aroused on account of my being a Brahmana, am desirous of asking something to thee, who is capable of great forbearance. If it be not a secret, thou mayst kindly give a reply 40 PURPORT IN SANSKRIT :—यतोऽहं त्वत्तोऽभिन्नः, ब्राह्मण- त्वाच्च तव विषये ज्ञ तु मे महत्कुतूहलम्, अतोऽहं त्वां किञ्चित्प्रष्टु- मिच्छामि । त्वया च क्रोधो न कार्यो यतस्त्वं तपस्विनी बहुतमा- युक्ता च । हे तपस्विनि पार्वति, अधुना यद्यस्मिन् विषये किञ्चिद् गोप्यं न भवेत् तर्हि कृपया कथनीयम् ॥ ४० ॥ कुले प्रसूतिः प्रथमस्य वेधस- स्त्रिलोकसौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वय- स्तपः फलं स्यात्किमतः परं वद ॥ ४१ ॥ प्रष्टव्यमाह । कुल इति । प्रथमस्य वेधसः हिरण्यगर्भस्य कुले अन्ववाये । प्रसूतिः उत्पत्तिः । 'यज्ञार्थं हि मया सृष्टो हिमवान- चलेश्वरः ' । इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रिलोकसौन्दर्यं त्रयाणां लोकानां सौन्दर्यं इव उदितं एकत्र समाहृतम् । ऐश्वर्यसुखं संपत्सुखं अमृग्यं अन्वेषणीयं न भवति । किं तु सिद्धमेवेत्यर्थः । वयः नवम् । यौवनमित्यर्थः अतः परं अतोऽन्यत् किं तपःफलं स्यात् वद अस्ति चेदिति शेषः । न किञ्चिदस्तीत्यर्थः ॥ ४१ ॥ PROSE ORDER :—प्रथमस्य वेधसः कुले प्रसूतिः, वपुः त्रिलोकसौन्दर्यमिव उदितम्, ऐश्वर्यसुखं अमृग्यम्, वयः नवम्, अतः परं किं तपः फलं स्याद् इति वद् ॥ ४१ ॥