कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 129, कुल 268 में से
संदर्भ में पढ़ें( ११० ) PURPORT IN SANSKRIT :— संसारे प्रायेण जनाः श्रेष्ठकुल- जन्मार्थं, सौन्दर्यार्थं, सम्पत्त्यर्थं, यौवनार्थं वा नानाविधानि तपांसि कुर्वन्ति, परं तानि सर्वाण्यपि ते स्वभावतः सिद्धानि—आद्यब्रह्मणः कुले ते जन्म जातम्, तव देहस्त्रयाणामपि लोकानां एकत्रीकृतं लावण्यमिवास्ति, तव पितुर्गृहंनस्त्रिलैश्वर्यस्य निधानम्, आयुश्च ते नूतनम् । तर्हि त्वं किमर्थं कठिनं तप आचरसि ? त्वं बुद्धिमती कारणं विना न तपस्यसि—तदेव कारणमहं ज्ञातुकामः ॥ ४१ ॥ भवत्यनिष्टादपि नाम दुःसहा- न्मनस्विनीनां प्रतिपत्तिरीदृशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि ॥ ४२ ॥ भवतीति । दुःसहात् सोढुमशक्यात् अनिष्टाद् भर्त्रादिकृतात् अपि मनस्विनीनां धीरस्त्रीणां ईदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । ‘ प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये ’ इति केशवः । भवति नाम । नामेति संभावनायाम् । विचारमार्गप्रहितेन विचारमार्ग प्रहितेन चेतसा चित्तेन तद् अनिष्टं च हे कृशोदरि त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसंभावितत्वा- दित्यर्थः ॥ ४२ ॥ PROSE ORDER :—दुःसहाद् अनिष्टादपि मनस्विनीनां ईदृशी प्रतिपत्तिः भवति नाम, ( परं ) ( हे ) कृशोदरि, विचारमार्गप्रहितेन चेतसा तत् च त्वयि न दृश्यते ॥ ४२ ॥ NOTES :—दुःसहात्—( दुर्+√सह्+खल् ) दुःखेन सह्यते इति, तस्मात् which can be borne with difficulty. Adjective of अनिष्टात्—(√ इष्+क्तः) न इष्टात् अनिष्टात् from an undesirable thing; an evil ; a wrong.