कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 131, कुल 268 में से
संदर्भ में पढ़ें( ११२ ) सकता है, (परन्तु) हे सुन्दर कटि वाली, विचार करने वाले मन से तुम्हारे बारे में वह भी (सम्भव) नहीं दीखता ॥ ४२ ॥ ENGLISH TRANSLATION —Such a course of action is possible in case of high minded ladies on account of any wrong (done to them), but, O one of slender waist, no such wrong is known in thy case by the mind directed through the channel of thought. 42 PURPORT IN SANSKRIT.—लोके कदाचिद् भर्त्रादिभि- सम्बन्धिभिस्तिरस्कृताः मानिन्यो नायस्तपोऽर्जन स्वीकुर्वन्ति, परं हे सुमध्यमे, त्वामन्तरेण तु एतदपि तपस्यायाः कारणं न ज्ञायते ॥ ४२ ॥ अलभ्यशोकाभिभवेयमाकृति— र्विमानना सुभ्रु कुतः पितुर्गृहे । पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ॥ ४३ ॥ अनिष्टाभावमेव प्रपञ्चयति । अलभ्येति । हे सुभ्रु । इयं त्वदीया आकृतिः मूर्त्तिः अलभ्यशोकाभिभवा अलभ्यो लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखैनाभिभवस्तिरस्कारो यस्या सा तथोक्ता । दृश्यत इति शेष । असंभावितश्चायमर्थ इत्याह पितुर्गृहे विमानना अवमानः कुतः । न संभाव्यत एवेत्यर्थः । न चाप्यन्यस्माद्वा- बीत्याह पराभिमर्शः परधर्षणं तु तव नास्ति । पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । ‘ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ’ इति चतुर्थी । करं हस्तं कः प्रसारयेत् । सुभ्र इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् ‘नेयङुवङ्स्थानावस्त्री'