कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 135, कुल 268 में से
संदर्भ में पढ़ें( ११६ ) insult from others , ( for ) who can stretch his arm for ( snatching away ) the pointed end of a serpent's gem ? 43. Purport in Sanskrit — हे शोभनभ्रूयुक्ते पार्वति, ‘सामुद्रिकलक्षणयुक्ता आकृतयोऽनिष्टभाजो न दृष्टाः’ इति न्यायात् शुभलक्षणोपेतं ते सुन्दरं रूपं दुःखयोग्यं नास्ति । कुमारित्वात् भर्तृकृतानिष्टस्य तु शङ्केव नास्ति, परं ते पिताऽपि त्वयि नितरां स्निह्यति अतस्तव जनकस्य गृहेऽपि तेऽपमानः केनापि कर्तुं न शक्यत । भर्तृपित्राद्यतिरिक्तः कश्चिदन्यस्त्वां तिरस्कुर्यादिति शङ्कायाप्यलम्, न हि कश्चिदपि सर्पस्य शिरोमणिं ग्रहीतुं उद्यमं करोति। यथा हि सर्पमणेर्ग्रहणं दुष्करमेवमेव ते धर्षणमपीति तात्पर्यम् ॥ ४३ ॥ किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ ४४ ॥ किमिति । हे गौरि किमिति केन हेतुना यौवने त्वया आभर- णानि अपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वात् वुञ्प्रत्ययः । ‘वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि’ इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् । प्रदोषे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिः अरुणाय सूर्यसुताय कल्पते यदि अरुणं गन्तुं कल्पते किम् । वद ब्रूहि । ‘क्रियार्थोपपदस्य’ इत्यादिना चतुर्थी । दीप्यमान- शशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं संघटत इति भावः ॥ ४४ ॥ ‘