भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 141, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 141

( १२२ ) निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभःकथम् ॥ ४६ ॥ वरवाचकाक्षरश्रवणानन्तरमेव देव्या उष्णोच्छ्वासमालक्ष्य प्रश्नेषु च प्रत्युत्तरमनुपलभ्य स्वयमेवाशङ्क्याह—निवेदितमिति । सोष्मणा निःश्वसितेन निःश्वासवायुना निवेदितम् । चिन्तानुभावे- नोष्णोच्छ्वासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसने- नेत्याह । मे मन तु तथापि संशयमेव गाहते प्राप्नोति । कुतः । ते तव । 'कृत्यानां कर्त्तरि वा' इति षष्ठी । प्रार्थयितव्य प्रार्थयितुमर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो दुर्लभः स कथं भविष्यति । नास्त्येवेत्यर्थः ॥ ४६ ॥ PROSE ORDER :—( यद्यपि ) सोष्मणा निःश्वसितेन निवे- दितम् मे मन तु संशयं एव गाहते, ते प्रार्थयितव्य एव न दृश्यते, प्रार्थितदुर्लभः कथं भविष्यति ? ॥ ४६ ॥ NOTES :—On hearing the word husband, Parvati instead of replying to the question simply heaved a sigh, which led Shiva to conclude that she was prac- tising penance in order to procure a suitable husband But the conclusion was not without doubt, so he continues his enquiry सोष्मणा—ऊष्मणा सह वर्तत इति सोष्म, तेन सोष्मणा ( उष्णेन ) warm ऊष्मन् ( heat ) masc gender is declined as—ऊष्मा, ऊष्माणौ, ऊष्माणः । ऊष्माणं, ऊष्माणौ, ऊष्मणः । ऊष्मणा, ऊष्मभ्यां, ऊष्मभिः etc. निःश्वसितेन—( निस्+√श्वस्+क्तः ) निःश्वासेन sigh ;