कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 143, कुल 268 में से
संदर्भ में पढ़ें( १२४ ) PURPORT IN SANSKRIT —वरशब्दश्रवणेन पार्वत्या किञ्चि- दुत्तरमदत्त्वैव दीर्घोष्णो निःश्वासो गृहीतस्तद् दृष्ट्वा शिषः कथयति —यद्यपि तव दीर्घोष्णनिःश्वासेनाह विज्ञापितो यत्त्वं वरप्राप्त्यर्थ- मेव तप आचरसि, तथाप्यस्मिन् विषये मे चित्त सन्देहरहितं नास्ति, यतो मन्मतौ तु संसारे कश्चिदपि नैतादृश पुमान् यस्त्वया प्रार्थ्येत ( अभ्यर्थनामर्हति ), पुनरेतादृशस्तु को यस्तव प्रार्थनान्त- रमपि सुलभतया न लभ्येत । सर्वोत्कृष्टगुणोपेता त्वमेव प्रार्थनीया न तु त्वयान्ये प्रार्थनीयाः । यदि च त्वं कमपि विशेषं जनमिच्छसि तर्हि तेन सुलभेन भवितव्यम् ॥ ४६ ॥ अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥ ४७ ॥ अथ पतिप्रार्थनामेव सिद्धवत्कृत्याह । अहो इति । अहो चित्रम् । तव ईप्सित आप्तुमिष्टः युवा कः अपि स्थिरः कठिनः । वर्तत इति शेषः । यः युवा चिराय चिरात्प्रभृति कर्णोत्पलशून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथिलबन्धनाः अत एव लम्बिन्यस्ताः श्लथलम्बिनीः कलमाग्रपिङ्गलाः कलमाः शालि- विशेषास्तेषामग्राणि तद्वत्पिङ्गलाः जटाः उपेक्षते । यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः ॥ ४७ ॥ PROSE ORDER :—तव ईप्सितः कः अपि युवा स्थिरः (अस्ति) अहो, यः चिराय कर्णोत्पलशून्यतां गते कपोलदेशे श्लथलम्बिनीः कलमाग्रपिङ्गला जटाः उपेक्षते ॥ ४७ ॥ NOTES :—ईप्सितः—( √ आप् to obtain +सन् +क्तः ) प्राप्तुं काङ्क्ष्यमाण. Desired to be obtained. This is Past