कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( १२४ ) PURPORT IN SANSKRIT —वरशब्दश्रवणेन पार्वत्या किञ्चि- दुत्तरमदत्त्वैव दीर्घोष्णो निःश्वासो गृहीतस्तद् दृष्ट्वा शिषः कथयति —यद्यपि तव दीर्घोष्णनिःश्वासेनाह विज्ञापितो यत्त्वं वरप्राप्त्यर्थ- मेव तप आचरसि, तथाप्यस्मिन् विषये मे चित्त सन्देहरहितं नास्ति, यतो मन्मतौ तु संसारे कश्चिदपि नैतादृश पुमान् यस्त्वया प्रार्थ्येत ( अभ्यर्थनामर्हति ), पुनरेतादृशस्तु को यस्तव प्रार्थनान्त- रमपि सुलभतया न लभ्येत । सर्वोत्कृष्टगुणोपेता त्वमेव प्रार्थनीया न तु त्वयान्ये प्रार्थनीयाः । यदि च त्वं कमपि विशेषं जनमिच्छसि तर्हि तेन सुलभेन भवितव्यम् ॥ ४६ ॥ अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥ ४७ ॥ अथ पतिप्रार्थनामेव सिद्धवत्कृत्याह । अहो इति । अहो चित्रम् । तव ईप्सित आप्तुमिष्टः युवा कः अपि स्थिरः कठिनः । वर्तत इति शेषः । यः युवा चिराय चिरात्प्रभृति कर्णोत्पलशून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथिलबन्धनाः अत एव लम्बिन्यस्ताः श्लथलम्बिनीः कलमाग्रपिङ्गलाः कलमाः शालि- विशेषास्तेषामग्राणि तद्वत्पिङ्गलाः जटाः उपेक्षते । यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः ॥ ४७ ॥ PROSE ORDER :—तव ईप्सितः कः अपि युवा स्थिरः (अस्ति) अहो, यः चिराय कर्णोत्पलशून्यतां गते कपोलदेशे श्लथलम्बिनीः कलमाग्रपिङ्गला जटाः उपेक्षते ॥ ४७ ॥ NOTES :—ईप्सितः—( √ आप् to obtain +सन् +क्तः ) प्राप्तुं काङ्क्ष्यमाण. Desired to be obtained. This is Past
( १२५ ) Passive Participle, used in the sense of the present tense, of the Desiderative of √ आप् । आ of √ आप् is changed to ई before सन् suffix by ' आप् ज्ञप्यृधामीत् ' पा० ७ ४ ५५ । In तव, Genitive case is used because the past passive participle has been used in the sense of the present tense. Cf ' कस्य च वर्त्तमाने ' पा० २ ३ ६७ । कः अपि—अविज्ञातनामधेयः, यः कोपि भवेत् whosoever he may be. स्थिरः—अतिकठिनहृदयः firm ; not easily moved ; hard अहो—आश्चर्यं इदम् it is strange ; alas चिराय—बहोः कालात् since long. It is an indeclin- able word and not the Dative sing. of चिर । Cf. ' चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ' इत्यमरः । कर्णोत्प- लशून्यताम्—कर्णयोः उत्पलाभ्यां (कर्णावतंसीकृताभ्यां कमलाभ्यां) शून्य (रहितः) कर्णोत्पलशून्यः, तस्य भावः कर्णोत्पलशून्यता, ताम् Or, कर्णालङ्कारभूतमुत्पलं तेन शून्य. कर्णोत्पलशून्यस्तस्य भाव कर्णोत्पलशून्यता, ताम् from which the ear-lotus has been absent. At times flowers are used particularly by women living in hermitages, as ornaments. Par- vati also did so, but since her assuming the life of an ascetic she gave up the practice. गते—Loc. sing. of गत past part. Adj. of कपोलदेशे over which the ear-lotus used to hang. कपोलदेशे—कपोल एव देशः कपोलदेशः, तस्मिन् over her cheeks. श्लथजम्बिनीः—श्लथाश्च ताः लम्बिन्यश्च श्लथलम्बिनीः, ताः loose or untied and (or, therefore hanging लम्बिनीः (√लम्ब्+णिनिः+ ङीप्) is in Acc. plu., declined like नदी । Some books कु० सं०—१०
( १२६ ) read श्लथबन्धिनोः—श्लथः बन्धो यासां विद्यते ताः श्लथ- बन्धिन्यः, ताः with their tie loosened कलमाग्रपिङ्गलाः— कलमानां ( शालिविशेषाणां ) अग्रवत् पिङ्गलाः tawny like the tips of the blades of paddy कलम is a kind of rice, known as paddy Both these are Adjectives of जटाः —Matted hair उपेक्षते—अनादरेण सहते tolerates , is indifferent towards √ईक्ष् ' to see ' when preceded by उप means ' to see indifferently ' Shiva means to say that the bridegroom who is sought after by her must be very hard-hearted who does not take pity on this condition of Parvati 47 CHANGE OF VOICE :—तव ईप्सितेन केन अपि यूना स्थिरेण ( भूयते ), अहो, येन चिराय कर्णोत्पलशून्यतां गते कपोलदेशे श्लथलम्बिन्यः कलमाग्रपिङ्गलाः जटा उपेक्ष्यन्ते ॥ ४७ ॥ HINDI TRANSLATION :—तुम्हारा चाहा हुआ युवक, चाहे कोई सा हो, कठोर हृदय का है, (क्योंकि) आश्चर्य है कि वह दीर्घ काल से कर्णफूल की तरह प्रयुक्त कमलों से रहित गालों पर खुली हुई लटकने वाली तथा धानविशेष की नोक के समान कपिश वर्ण की जटाओं को उदासीनता से देखता है ॥ ४७ ॥ ENGLISH TRANSLATION —The young man, who is desired by thee, must be hard-hearted, (since) it is a wonder, he can tolerate the matted hair, tawny like the tips of the blades of paddy, hanging loosely on (thy) cheeks which have been devoid of ear-lotus since long. 47
( १२७ ) PURPORT IN SANSKRIT :-यं लक्ष्यीकृत्य त्वं तपः करोषि स जनो नितरां पाषाणवन् कठोरहृदयः प्रतीयते, यतो यद्यपि त्वया दीर्घकालं कमलादीनां पुष्पैः कर्णयोर्मण्डनं त्यक्तं तत्स्थाने च कपोलयोरुपरि कान्तिविशेषवद्दीपद्रकवर्णाः शिथिलबन्धनाः जटाः धार्यन्ते - सर्वप्रकारेण ते तपस्विनामिव दयनीयाकृतिः-तथापि स त्वयि दयां न दर्शयति ॥ ४७ ॥ मुनि व्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ ४८ ॥ मुनिव्रतैरिति। मुनिव्रतै चान्द्रायणादिभिः अतिमात्रकर्शितां अतिमात्रमत्यन्तं कर्शितां कृशीकृतां दिवाकराप्लुष्टविभूषणास्पदां दिवाकरेण सूर्येण आप्लुष्टानि दग्धानि वातातपसंस्पर्शान्मृदुत्वाच्च श्यामीकृतानि विभूषणास्पदानि भूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवा अहनि शशाङ्कलेखामिव स्थितां त्वां पश्यतः सचेतस जीवतः कस्य पुंसः मनः न दूयते न परितप्यते । अपि तु सर्वस्यैवेत्यर्थः ॥ ४८ ॥ PROSE ORDER :-मुनिव्रतैः अतिमात्रकर्शितां दिवाकराप्लुष्ट विभूषणास्पदां दिवा शशाङ्कलेखां इव त्वां पश्यतः सचेतसः कस्य मनः न दूयते ? ॥ ४८ ॥ NOTES :-मुनिव्रतैः-मुनिजनोचितैः व्रतैः by the vows observed by ascetics (and not by ordinary people. अतिमात्रकर्शितां-अत्येव अतिमात्रम्, or अतिक्रान्ता मात्रा यस्मिन् कर्मणि तदतिमात्रम् (अव्ययीभावः), अतिमात्रं कर्शितां
( १२८ ) अतिमात्रकर्शिताम् very much emaciated दिवाकरा'प्लुष्ट- विभूषणास्पदाम् । दिवाकरः- ( कृ+टः ) दिवा करोति इति दिवाकरः ( सूर्यः ) the sun आप्लुष्टं - ( आ + √प्लुष् to burn +क्त. ) दग्धं scorched विभूषणं - ( वि + भूष्-ल्युट् +अन ) विभूष्य त्यनेन इति विभूषण an ornament आस्पदं - स्थानं a place दिवाकरेण आप्लुष्टानि विभूषणानां आस्पदानि यस्याः सा दिवाकग'प्लुष्टविभूषणास्पदा, ताम् the places of ornaments of whose ( body ) have been scorched by the sun दिवा-दिवसे during the day-time It is an indeclinable ( अव्यय ) । शशाङ्कलेखां-शशः विद्यते अङ्के यस्य सः शशाङ्कः ( चन्द्रः ) तस्य लेखा शशाङ्कलेखा ( चन्द्रकला ), ताम् the crescent of the moon The simile is very effective— just as the crescent of the moon is very thin and is dimmed by the light of the sun so did appear Parvati who was emaciated and sun-burnt during her observ- ance of hard vows पश्यतः-अवलोकयतः who sees you. Genitive sing of पश्यत् pres part. of √दृश् । सचेतसः —चेतसा सह वर्त्तते इति सचेता, तस्य सचेतसः ( सहृदय ) possessing consciousness or heart; full of feeling. दूयते—( √डूङ् परितापे +लट् ) suffers pain. It is implied that Shiva’s mind also was pained at this condition of Parvati. 48. CHANGE OF VOICE :—मुनिव्रतैः अतिमात्रकर्शितां दिवा- कराप्लुष्टविभूषणास्पदां दिवा शशाङ्कलेखामिव त्वां पश्यतः सचे- तसः कस्य मनसा न दूयते ? ॥ ४८ ॥ HINDI TRANSLATION :—मुनियों के योग्य व्रतों ( के करने )
( १२६ ) से अत्यधिक कृश की हुई, सूर्य (की गर्मी) से झुलसे हुये आभूषण पहिनने के स्थान वाली, तथा दिन में चन्द्रमा की कला जैसी तुम को देखने वाले किस भावुक का मन दुःखी न होगा ? ॥ ४८ ॥ English Translation — Of what person, having a heart, the mind is not afflicted, on seeing thee, like the crescent of the moon by day, who is extremely emaciated by ( the observance of ) saintly vows and whose places of ornaments have been scorched by the sun ? 48 Purport in Sanskrit :—त्वं मुनिसम्बन्धिकठोरव्रतपाल- नेन नितरां कृशा जाता, तव भूषणस्थानीयानि गात्राणि च सूर्यस्य तापेन दग्धानि। तव दशा तु दिवसकाले सूर्यप्रकाशेन मन्दीकृतायाः क्षीणायाश्चन्द्ररेखाया इव दयनीयास्ति, तर्हि क एतादृशो भावुको यस्त्वामीदृशीं दृष्ट्वापि दुःखी न भवेत् ? ॥ ४८ ॥ अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥ ४९ ॥ अवैमीति । तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्भेण । कर्त्रा । वञ्चितं विप्रलब्धम् अवैमि वेद्मि यः । प्रियञ्चतुरं मधुरम- वलोकत इति चतुरावलोकिनः अरालपक्ष्मणः कुटिलरोम्णः । ‘अरालं वृजिनं जिह्मम्’ इत्यमरः । अस्य त्वदीयस्य चक्षुषः आत्मीयं वक्त्रं मुखं चिरं लक्ष्यं विषयं न करोति । दृष्टिपथं न गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः ॥ ४९ ॥
( १३० ) PROSE ORDER :- तव प्रियं सौभाग्यमदेन वञ्चितं अवैमि, य आत्मीयं वक्त्रं चतुरावलोकिनः अरालपक्ष्मणः अस्य चक्षुषः चिरं लक्ष्यं न करोति ॥ ४६ ॥ NOTES :—तव प्रियं—your beloved, i e the per-on whom you have chosen as your would-be husband सौभाग्यमदेन—( सुभग + ष्यञ् ) सुभगस्य भावः सौभाग्यं, तस्य मदः सौभाग्यमदः, तेन ( सौन्दर्यगर्वेण ) by the pride of (his) beauty वञ्चितं—प्रतारित cheated Because regarding himself beautiful he does not care to see Parvati and is thus deprived of the pleasure of seeing her face He does not possess the real good fortune which lies in being loved by Parvati अवैमि—( अव + √इ + लट् ) जानामि I think. √ इ to go, when preceded by अव means ' to know ' Similarly all the roots meaning ' to go ' when preceded by अव mean ' to know ' आत्मीयं —( आत्मन् + छः—ईय ) आत्मन इदं आत्मीयम् ( स्वकीयम् ) his own वक्त्रं—मुखं the face चतुरावलोकिनः—( अव + √लोक to see+णिनिः=अवलोकि ) चतुरं ( सुन्दरं ) अव- लोकते इति चतुरावलोकि, तस्य चतुरावलोकिनः which casts lovely glances ; which sees in a lovely manner अराल- पक्ष्मणः—अरालानि ( कुटिलानि ) पक्ष्माणि ( नेत्रलोमानि ) यस्य तत् अरालपक्ष्म, तस्य of which the eye-lashes are curved. अराल means crooked or curved. ‘ अराल कुटिलं जिह्मम् ’ इत्यमरः । curved eyelashes are regarded beautiful पक्ष्मन् eye-lashes, is Neuter Gender and is declined as पक्ष्म, पक्ष्मणी, पक्ष्माणि etc. Both चतुरावलोकिनः and
( १३१ ) अरालपक्ष्मणः are Adjectives of चक्षुषः । अस्य—of this, i. e., yours चिरं—for a long time लक्ष्यं—दर्शनविषयम् target or object of sight i. e., does not bring him to the view of your eyes. Some books read the third line as 'करोति लक्ष्यं रविमस्य चक्षुषः' makes the sun the mark for your eyes, i. e., makes you practise the पञ्चाग्नि penance 49. Change of Voice:—(मया) तव प्रियः सौभाग्यमदेन वञ्चितः अवेद्यते (अव + ईयते), येन आत्मीयं वक्त्रं चतुराव- लोकिनः अरालपक्ष्मणः अस्य चक्षुषः चिरं लक्ष्यं न क्रियते॥ ४६ ॥ Hindi Translation:—(मैं) तेरे प्यारे को (उसकी) सुन्दरता के गर्व से ठगा हुआ समझता हूँ, जो कि अपने चेहरे को सुन्दर चितवन तथा टेढ़े रोमवाली इन (तेरी) आँखों का निशाना नहीं बनाता ॥ ४६ ॥ English Translation —I regard (thy) lover to be cheated by the pride of his beauty, who does not, for a long time, make his face the target for (thy) eyes of lovely glances and curved eye-lashes. 49 Purport in Sanskrit:—त्वया काङ्क्षितो जनस्तु सत्य- मेव विचित्रचरित्रवान् । स निजसौन्दर्यदर्पेण वृथैवात्यन्तं गर्वितो दृश्यते—अनेन कारणेनैव स तव प्रार्थनां प्रतीक्षमाणस्तव सम्मुखं नायाति। यदि हि स अत्रागमिष्यत् तर्हि तव मधुरालोकनयुक्ते सुन्दररोमसहिते च नेत्रे विलोक्य नूनमेव हतदर्पोऽभविष्यत् यथार्थसौभाग्यसुखञ्चाप्स्यत् । असत्येन सौभाग्यमदेन तस्येदं वास्तविकं सौभाग्यं प्रतिरुद्धमिति स वञ्चित एव मया मन्यते ॥ ४६ ॥
( १३२ ) कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः । तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥ ५० ॥ कियदति । हे गौरि । कियत् किं प्रमाणकम् । चिरं श्राम्यसि तपस्यसि । अत्यन्तसंयोगे द्वितीया । ममापि पूर्वाश्रमसंचितं पूर्वा- श्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संपादितं तपः विद्यते । तदर्धभागेन अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनेकदेशेन काङ्क्षितं इष्टं वरं उपयन्तारं लभस्व । तं वरं साधु सम्यक् वेदितुं ज्ञातु इच्छामि च । यद्यसौ योग्यो भवति तदा ममापि संमतिरिति भावः ॥ ५० ॥ PROSE ORDER :—गौरि, कियच्चिरं श्राम्यसि ? पूर्वाश्रम- सञ्चितं मम तपः अपि विद्यते, तदर्धभागेनकाङ्क्षितं वरं लभस्व, तं च साधु वेदितुं इच्छामि ॥ ५० ॥ NOTES :—कियत्—( कि+वतु ) किं परिमाणमस्येति कियत् how much वतुप् is added and व of वतुप् is changed to घ by ‘किमिदंभ्यां वो घः’ पा० ५ २ ४० । घ is then changed to इय and किं is changed to कि before दृग्, दृश and वतु by ‘इदकिमोरीश्की’ पा० ६ ३ ६० । चिरम् for a long time Accusative is used on account of ‘कालाध्वनोरत्यन्तसंयोगे’ पा० २.३ ५। i. e., intransitive roots govern the Accusative of nouns denoting space or country, or duration of time and distance. श्राम्यसि —तपस्यसि to take pains ; to torture ( the body ) The
( १३३ ) √श्रम् ‘ to fatigue ’ means ‘ to take rest ’ when preceded by वि । Cf विश्राम । पूर्वाश्रमसञ्चितं—पूर्वस्मिन् आश्रमे ( ब्रह्म- चर्याश्रमे ) सञ्चितं पूर्वाश्रमसञ्चितं accumulated in the first stage of life तदर्धभागेन—अर्धःभागः अर्धभागः, तस्य अर्धभागः, तदर्धभागः, तेन by a half of it काङ्क्षित—( √काङ्क्ष्+क्तः ) स्वाभिलषितं desired; of your choice वर—a bridegroom. त—वरं i. e. all about that bridegroom साधु—सम्यक् ; पूर्णतया fully, properly. Adverb to वेदितुं—ज्ञातुं to know. Some commentators have interpreted the word तपः to mean body, which is a means of performing penance. They mean to say that Shiva had offered to make Parvati his own अर्द्धाङ्गिनी Cf. ‘ तपः शब्दो लक्षणया तपः साधनभूतस्य शरीरस्य बोधकः, ‘ शरीरमाद्यं खलु धर्मसाधनम् ’ इत्युक्तत्वात् ।’ But, this seems to be far fetched 50 CHANGE OF VOICE :—गौरि, ( त्वया ) कियच्चिरं श्रम्यते ? पूर्वाश्रमसञ्चितेन मम तपसा अपि विद्यते, तदर्धभागेन काङ्क्षितः वरः ( त्वया ) लभ्यताम्, स च ( मया ) साधु वेदितुं इष्यते ॥ ५० ॥ HINDI TRANSLATION :—हे पार्वति, कब तक तपस्या करोगी ? प्रथमाश्रम में एकत्रित किया हुआ मेरा तप भी है, उसके आधे अंश से ( तुम अपने ) चाहे वर को प्राप्त कर लो, परन्तु उस ( वर ) को मैं पूरी तरह जानना चाहता हूँ ॥ ५० ॥ ENGLISH TRANSLATION —O Gauri, how long wilt thou practise penance ? I too have penance ( to my credit )practised in the first stage of life. Thou mayst
( १३४ ) get the desired bridegroom by a half of it, him, how- ever, I desire to know well. 50 Purport in Sanskrit :—हे पार्वति ! त्वया दीर्घकालं तपस्या कृता, इदानीमितोऽधिकतपस्यायाः काप्यावश्यकता न दृश्यते । यदि चाधिकतपसैव तेऽभीष्टं साध्यं तर्हि ममापि ब्रह्म- चर्याश्रमे कृतं तपोऽस्ति तस्यार्धमहं तुभ्यं दातुमुद्यतः, त्वं तत्सहाय- तया स्वेच्छितं वरं लब्धुं शक्नोषि । परं पूर्वमहं तस्य वरस्य विषये सर्वमपि ज्ञातुमिच्छामि ॥ ५० ॥ इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्त्तिनीं विवर्त्तितानञ्जननेत्रमैक्षत ॥ ५१ ॥ इतीति । इति इत्थं द्विजन्मना द्विजेन प्रविश्य अन्तर्गत्वा । आप्ततद्रहस्यमुद्भाव्येत्यर्थः । अभिहिता उक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् । लज्जयेति शेषः । अथो अनन्तरं परिपार्श्ववर्त्तिनीं वयस्यां सखीं विवर्तितानञ्जननेत्रं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन् कर्मणि तत्तथा ऐक्षत । नेत्रसंज्ञयैव प्रत्युत्तरं वाचयाञ्चकारेत्यर्थः ॥५१॥ Prose Order :—द्विजन्मना प्रविश्य इति अभिहिता सा मनोगतं शंसितुं न शशाक, अथो परिपार्श्ववर्त्तिनीं वयस्यां विवर्त्ति- तानञ्जननेत्रं ऐक्षत ॥ ५१ ॥ Notes :—द्विजन्मना—द्वे जन्मनी यस्य स द्विजन्मा, तेन ( विप्रेण ) by that Brahmana See notes on द्विजाति in the 40th verse above. प्रविश्य—अन्तर्गत्वा having entered into ; having penetrated her mind or the secret of
( १३५ ) her heart. अभिहिता—( अभि + √धा + क्त. ) कथिता being addressed The √धा ' to put on ' comes to mean ' to say ' when preceded by the preposition अभि । Note that धा changes into हि by ' दधातेर्हि ' पा० ७.४.४२ । मनो- गतं—मनसि गतं मनोगतं ( हृदयस्थ भावं वरं वा ) the desire or secret of her mind शंसितु—( √शंस् + तुमुन् ) कथयितुं to relate , to disclose शशाक—समर्था अभूत् was able. It was evidently on account of modesty which is so natural for a high born maiden that Parvati could not frankly talk to the Brāhmana अथो—अनन्तरं Then It is an indeclinable difference from अथ, though means the same परिपार्श्ववर्त्तिनीं—( परिपार्श्व + √वृत् + णिनिः + ङीप् ) परिपार्श्वे ( समीपे ) वर्त्तते इति परिपार्श्ववर्त्तिनी, ताम् who was by her side. वयस्यां—( वयस् + यत् + आप् ) वयसा ( आयुषा ) तुल्या ( समा ) वयस्या ( सखी ) who is equal in age, i e, a lady-friend The suffix यत् is added by नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसम- समितसम्मित्तेषु ' पा० ४४६१ । i. e, यत् is added to the words नौ, वयस् etc in the sense of तार्य ( which can take to the other side of water ), तुल्य ( which is equal ) etc विवर्तितानञ्जननेत्रम्—विवर्तित + अनञ्जन + नेत्रम् । अविद्यमानं अञ्जनं ययोः ( नेत्रयोः ) ते अञ्जने, विवर्तिते अनञ्जने नेत्रे यस्मिन् कर्मणि यथा भवति तथा विवर्तितानञ्जननेत्रम् having turned towards ( her ) the eyes devoid of collyrium ; i e, she made a sign to her friend by means of turning the eyes towards her to give a
( १३६ ) reply to the enquiry of the Brahmana Parvati did not apply collyrium to her eyes, because ascetics are not permitted to do so The compound is an Adverb to ऐक्षत—looked at 51 CHANGE OF VOICE :—द्विजन्मना प्रविश्य इति अभिहितया तया मनोगतं शंसितुं न शेके, अथो, परिपार्श्ववर्तिनी वयस्या विवर्तितानञ्जननेत्रं पेक्ष्यत ॥ ५१ ॥ HINDI TRANSLATION :—(उसके हृदय) की बात में घुस कर उन ब्राह्मण से पूछी हुई वह अपने मन की बात को न कह सकी। तब उसने अपने पास में स्थित सखी की ओर अञ्जनरहित नेत्रों को मोड़ कर देखा ॥ ५१ ॥ ENGLISH TRANSLATION — She, thus addressed by the Brâlımana, having entered (the secret of her heart), could not speak out the desire of her mind Then she looked at her friend, who was by her side, with eyes devoid of collyrium. 51 PURPORT IN SANSKRIT : —एवं स ब्राह्मणः पार्वतीं तस्या हार्दिकभावमपृच्छन्, परन्सा लज्जावशात् स्वहृदयस्थं भावं कथयितुं समर्था नाभूत्। स्वयमुत्तरमदत्त्वैव स्वसमीपवर्त्तिनीं निजसखीं प्रति स्वायाञ्जनरहिताभ्यां नेत्राभ्यां दृष्ट्वा च तां शिवाय निवेदयितुं प्रेरयामास ॥ ५१ ॥ सखी तदीया तमुवाच वर्णिर्न निबोध साधो तव चेत्कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥
( १३७ )
सखोति । तस्याः पार्वत्या इयं तदीया सखी वयस्या तम् । 'वर्ण प्रशस्तिः' इति क्षीरस्वामी । सोऽस्यास्तीति वर्णिने ब्रह्म- चारिणम् । 'वर्णाद्ब्रह्मचारिणि' इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति । हे साधो विद्वन् तव कुतूहल चेत् श्रोतुमस्तीति शेषः । तर्हि निबोध अवगच्छ । आकर्णयेत्यर्थः 'बुध अवगमने' इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं कि तदाह—यस्मै लाभायेदं यदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्या अम्भोजं पद्मम् उष्णावारणं आतपत्र इव वपुः शरीरं तपः साधनं कृतम् । तपः- प्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः ॥ ५२ ॥ PROSE ORDER —तदीया सखी तं वर्णिर्न उवाच, (हे) साधो, तव चेत् कुतूहलम् (तर्हि) निबोध, एतया यदर्थं अम्भोजं उष्णावारणमिव वपुः तपः साधनं कृतम् ॥ ५२ ॥ NOTES —तदीया—(तद्+छः+ईय+आ) तस्या इयं तदीया of her, i e., of Parvati See notes on तदीयं in the verse 21 वर्णिन्—(वर्ण+इनिः=वर्णिन्) वर्णः (प्रशस्तिः) अस्यास्तीति वर्णिन्, तं वर्णिर्न to the Brahma- charin; an ascetic. The word वर्ण means प्रशस्तिः (freedom from carnal enjoyment—'वर्णः प्रशस्तिः) or वेदाध्ययनार्थं ब्रह्मचर्यम् (the first stage of life—Brahma- charya), or a particular colour Cf 'वर्णो द्विजादि- शुक्लादियज्ञे गुणकथासु च स्तुतौ ना' इति मेदिनी । The suffix इनि is added to वर्ण by 'वर्णाद्ब्रह्मचारिणि' पा० ५.२.१३४ । When the meaning is other than ब्रह्मचारिन् this suffix will not be added and the form would be वर्णवान् । For the meaning of प्रशस्ति Cf. "स्मरणं कीर्त्तनं केलिः
( १३८ ) प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।" एतदष्टविधमैथुनाभावः प्रशस्तः । ' साधो—साध्नोति परेषां कार्याणि इति साधुः, तस्य सम्बोधने साधो ( सज्जन ) O one who accomplishes another's business O sage; noble sir Voc. sing of साधु कुतूहलं—Curiosity to know about the bride- groom desired by Parvati निबोध—जानीहि you may hear or know यदर्थं यस्मै इति यदर्थं for whom. The com- pound with अर्थ is a नित्यसमास and takes the gender and number of the noun it qualifies Cf. 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् ।' For the meaning of नित्यसमास ( अविग्रहो नित्यसमासः अस्वपदविग्रहो वा ) see notes on क्रियार्थं in verse 33 above. अम्भोजं—अम्भसि ( जले ) जात इति अम्भोजं a lotus Synonyms of अम्भोज may be had by adding ज to word meaning water. उष्णवारणं—उष्णस्य वारणं उष्णवारणम् ( छत्रम् ) warding off the sun ; an umbrella. तपःसाधनं—तपसः साधनं तपःसाधन a means of practising religious austerities Just as people use a lotus leaf for warding off the sun so did Parvati employ her body to practise penance 52 CHANGE OF VOICE:—तदीयया सख्या स वर्णी ऊचे, (हे) साधो, चेत् तव कुतूहलं ( तर्हि त्वया ) निबुध्यताम्, एषा यदर्थं अम्भोजं उष्णवारणमिव वपुः तपःसाधनं कृतवती ॥ ५२ ॥ HINDI TRANSLATION :—उसकी सहेली उस ब्रह्मचारी से बोली—( हे ) साधु, यदि तुम्हें उत्सुकता हो तो सुनो (या
( १३६ ) जानो ) जिस लिये इसने ( अपने ) शरीर को ( उसी प्रकार ) तप करने का साधन बनाया है जिस प्रकार कमल धूप दूर करने के लिये बनाया जाता है ॥ ५२ ॥ ENGLISH TRANSLATION —Her friend said to the ascetic—‘ O sage, if such be thy curiosity, thou mayst know then, for whom this lady has made her body a means of practising penance, as one makes a lotus ( a means of ) warding off the sun 52 PURPORT IN SANSKRIT :—ब्राह्मणजिज्ञासां दृष्ट्वा तस्या वयस्या ब्राह्मणं प्रत्युवाच—' हे महाशय, यदि ते महती जिज्ञासा तर्हि मया कथ्यमानं तत्प्रयोजनं शृणु यदर्थे अनया स्वशरीरं तथैव शीतातपादिसहने नियुक्तं यथा कश्चित्पुरुषस्तापदूरीकरणाय कमल- दलमेकं प्रयुङ्क्ते ॥ ५२ ॥ इयं महेन्द्रप्रभृतीन्निधिश्रिय- श्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥ ५३ ॥ ‘दृङ्मनःसङ्गसंकल्पा जागरः कृशताऽरतिः । ह्रीत्यागोन्माद- मूर्छान्ता इत्यनङ्गदशा दश ।’ इति । तत्रास्याः काश्चिद्दशाः क्रम- मनादृत्यैव योजयति—इयमित्यादिभिः षड्भिःश्लोकै — इयमिति । मानिनी इन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्य- भिमानवती इयं पार्वती अधिश्रियः अधिकैश्वर्यान् महेन्द्रप्रभृतीन् इन्द्रादींश्चतसृणां दिशामीशान् चतुर्दिगीशान् इन्द्रवरुणयम- कुबेरान् । ‘तद्धितार्थ’—इत्यादिनोत्तरपदसमासः । अवमत्य
( १४० ) अवधूय मदनस्य निग्रहात् निर्वहणाद्धेतोः । अकामुकत्वादित्यर्थः । रूपेण सौन्दर्येण हार्यो वशीकरणीयो न भवतीति अरूपहर्यं पिनाकः पाणौ यस्य तं पिनाकपाणि हरम् । ' प्रहरणार्थेभ्यः परे निष्ठा- सप्तम्यौ भवतः ' इति साधु । पति भर्तारं आप्तुं इच्छति । एनेन संकल्पावस्था सूचिता ॥ ५३ ॥ PROSE ORDER :—मानिनी इयं अधिश्रियः महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमन्य मदनस्य निग्रहात् अरूपहार्यं पिनाकपाणिं पतिं आप्तुं इच्छति ॥ ५३ ॥ NOTES :—मानिनी—( मान + इनिः + ङीप् ) मानोऽस्या अस्तीति मानिना ( अभिमानवती ) a high-minded lady. अधिश्रियःअधिका श्री. (ऐश्वर्यं) येषां ते, अधिगता वा श्रीः यैस्ते, तान् अधिश्रियः pre-eminently rich Acc. plural, Adjec- tive of चतुर्दिगीशान् । महेन्द्रप्रभृतीन्—महाञ्चासौइन्द्रः, महेन्द्रः, महेन्द्रः प्रभृतिः (आदि ) येषां ते महेन्द्रप्रभृतयः, तान् महेन्द्रप्रभृतीन् the great Indra and others चतुर्दिगीशान्—( चतुर्दिक् + ईशान् ) चतसृणां दिशां समाहारः चतुर्दिक, तस्य ईशान्, Or simply चतसृणां दिशां ईशाः ( स्वामिनः) चतुर्दिगीशाः, तान् the lords of all the four quarters. Indra, Varuna, Yama and Kubera are the lords of east, west, south and north respectively. The compound is an उत्तर- पदसमास by ‘ तद्धितार्थोत्तरपदसमाहारे च ’ पा० २.१.५१ । i. e., words denoting a cardinal point or numerals may be compounded with any other noun when a Taddhita termination is to be affixed to the compound so formed, or when the compound itself becomes
( १४१ ) the first member of another compound or when the compound forms a proper name अवमन्य—( अव + √मन्+क्त्वा—ल्यप् ) अनादृत्य having disdained, not attaching any importance to them. मदनस्य—of Cupid. निग्रहात्—दण्डनात् by his punishing or destroying ( Cupid ) अरूपहार्यम्--( √हृ+ण्यत् ) हर्तुं शक्यो हार्यः रूपेण हार्यः रूपहार्यः, न रूपहार्यः अरूपहार्यः तम् who cannot be conquered by means of beauty When Shiva could not be allured by Cupid, it is quite appropriate to say that he could not be conquered by physical charms This was the reason why Parvati wanted to win him over by the power of penance पिनाकपाणिम्— पिनाकः (धनुर्विशेषः ) पाणौ यस्य स पिनाकपाणि ( शिवः ) तं who holds Pinàka in his hand, i e, Shiva Pinàka is the proper name of Shiva's bow 'पिनाकोऽस्त्री रुद्रचापे पांसुवर्षत्रिशूलयोः' इति मेदिनी । The Locatnee of पाणि is made the second member, instead of the first, of the compound by 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' । आप्तुं—अधि- गन्तुं to obtain. In this and the following five verses the poet has described some of the ten states of Pàrvati to which she was subjected because of her attach- ment for Shiva. These states are known as अनङ्ग- दशाः i. e, the various states of a person's mind and body when he is in love with somebody. They are—'दृङ्मनःसङ्गसङ्कल्पा जागरः कृशताऽरतिः । ह्रीत्यागोन्माद- कु० सं०—११
( १४२ ) मूर्च्छान्ता इत्यनङ्गदशाः दश ॥' In this verse Parvati's सङ्कल्प i. e., determination to obtain Shiva has been suggested. 53. CHANGE OF VOICE:—मानिन्या अनया अधिश्रियः महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य मदनस्य निग्रहात् अरू- पहार्यः पिनाकपाणिः पतिः आप्तुं इष्यते ॥ ५३ ॥ HINDI TRANSLATION :—अभिमान वाली यह (पार्वती) अत्यधिक ऐश्वर्यशाली इन्द्रादि चारों दिशाओं के स्वामियों का अपमान करके, कामदेव को जलाने के कारण सुन्दरता से वश में न होने वाले (जाने गये) महादेव को पति (रूप में) प्राप्त करना चाहती है ॥ ५३ ॥ ENGLISH TRANSLATION :—This high-minded lady, disdaining the lords of the four quarters, the great Indra and others, highly refulgent, seeks to obtain as her husband the holder of the Pináka bow (i. e., Shiva) who is not to be conquered by beauty (as is evident) by his destruction of Cupid. 53 PURPORT IN SANSKRIT :—पर्वतराजस्य पुत्री गौरी इन्द्रादिषु देवेषु कमपि परीतुं न शक्नोति स्म, परमभिमानवती सा शिवं तेभ्योऽधिकं मन्यमाना ऐश्वर्यशालिन इन्द्रादीन् दिशामीशान् तिरस्कृत्य सर्वेषामधिपतिं शिवमेव स्वस्वामिनं कर्तुं कामयते, यो हि शिवः केनापि सौन्दर्येण वशीकर्त्तुमशक्यो यतः सोऽनुपम- सौन्दर्यशालिनं काममपि भस्मसात् कृतवान् ॥ ५३ ॥ असह्यहुँकारनिवर्त्तितः पुरा पुरारिप्राप्तमुखः शिलीमुखः ।
( १४३ ) इमां हृदि व्यायतपातमक्षिणो- द्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ ५४ ॥ असह्येति । पुरा पूर्वं असह्यहुंकारनिवर्तितः असह्येन सोढु- मशक्येन हुङ्कारेण रौद्रेण निवर्तितः । अतएव पुरारिं हरं अप्रा- प्तमुखः अप्राप्तफलः विशीर्णमूर्त्ते नष्टशरीरस्य अपि पुष्पधन्वनः कामस्य शिलीमुखः बाणः इमां पार्वतीं हृदि व्यायतपातं व्यायतः । सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन् कर्मणि तत्तथा अक्षिणोत् अकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । ' मृदुः सर्वत्र बाध्यते ' इति भावः । अनेन ' विवृण्वती शैलसुतापि भावम् ' ( ३।६८ ) इत्यत्रोक्तं चक्षुः प्रीतिमनःसङ्गाख्यमवस्थाद्वय- मनन्तरावस्थोपयोगितयानूद्य कार्श्यावस्था सूचिता ॥ ५४ ॥ PROSE ORDER :—पुरा विशीर्णमूर्त्तेः अपि पुष्पधन्वनः शिलीमुखः असह्यहुङ्कारनिवर्तितः पुरारिं अप्राप्तमुखः इमां हृदि व्यायतपातं अक्षिणोत् ॥ ५४ ॥ NOTES :—पुरा—पूर्वं formerly This refers to the time when Cupid vainly tried to allure Shiva and was ultimately reduced to ashes by him. विशीर्ण- मूर्त्तेः—( वि+√शॄ+क्तः ) विशीर्णा ( नष्टा ) मूर्त्तिः यस्य स विशीर्णमूर्त्तिः, तस्य विशीर्णमूर्त्तेः whose body had been destroyed For विशीर्ण, see notes on this word in verse 28 above. अपि—still, i. e., though Cupid had been physically destroyed, his arrow could still work. पुष्पधन्वनः—( पुष्प+धनुष्+अनङ् ) पुष्पाण्येव धनु- र्यस्य स पुष्पधन् नः Cf. the Flower- bowed ; whos of flowers. It is a