भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 156, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 156

( १३७ )

सखोति । तस्याः पार्वत्या इयं तदीया सखी वयस्या तम् । 'वर्ण प्रशस्तिः' इति क्षीरस्वामी । सोऽस्यास्तीति वर्णिने ब्रह्म- चारिणम् । 'वर्णाद्ब्रह्मचारिणि' इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति । हे साधो विद्वन् तव कुतूहल चेत् श्रोतुमस्तीति शेषः । तर्हि निबोध अवगच्छ । आकर्णयेत्यर्थः 'बुध अवगमने' इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं कि तदाह—यस्मै लाभायेदं यदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्या अम्भोजं पद्मम् उष्णावारणं आतपत्र इव वपुः शरीरं तपः साधनं कृतम् । तपः- प्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः ॥ ५२ ॥ PROSE ORDER —तदीया सखी तं वर्णिर्न उवाच, (हे) साधो, तव चेत् कुतूहलम् (तर्हि) निबोध, एतया यदर्थं अम्भोजं उष्णावारणमिव वपुः तपः साधनं कृतम् ॥ ५२ ॥ NOTES —तदीया—(तद्+छः+ईय+आ) तस्या इयं तदीया of her, i e., of Parvati See notes on तदीयं in the verse 21 वर्णिन्—(वर्ण+इनिः=वर्णिन्) वर्णः (प्रशस्तिः) अस्यास्तीति वर्णिन्, तं वर्णिर्न to the Brahma- charin; an ascetic. The word वर्ण means प्रशस्तिः (freedom from carnal enjoyment—'वर्णः प्रशस्तिः) or वेदाध्ययनार्थं ब्रह्मचर्यम् (the first stage of life—Brahma- charya), or a particular colour Cf 'वर्णो द्विजादि- शुक्लादियज्ञे गुणकथासु च स्तुतौ ना' इति मेदिनी । The suffix इनि is added to वर्ण by 'वर्णाद्ब्रह्मचारिणि' पा० ५.२.१३४ । When the meaning is other than ब्रह्मचारिन् this suffix will not be added and the form would be वर्णवान् । For the meaning of प्रशस्ति Cf. "स्मरणं कीर्त्तनं केलिः