भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 146, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 146

( १२७ ) PURPORT IN SANSKRIT :-यं लक्ष्यीकृत्य त्वं तपः करोषि स जनो नितरां पाषाणवन् कठोरहृदयः प्रतीयते, यतो यद्यपि त्वया दीर्घकालं कमलादीनां पुष्पैः कर्णयोर्मण्डनं त्यक्तं तत्स्थाने च कपोलयोरुपरि कान्तिविशेषवद्दीपद्रकवर्णाः शिथिलबन्धनाः जटाः धार्यन्ते - सर्वप्रकारेण ते तपस्विनामिव दयनीयाकृतिः-तथापि स त्वयि दयां न दर्शयति ॥ ४७ ॥ मुनि व्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ ४८ ॥ मुनिव्रतैरिति। मुनिव्रतै चान्द्रायणादिभिः अतिमात्रकर्शितां अतिमात्रमत्यन्तं कर्शितां कृशीकृतां दिवाकराप्लुष्टविभूषणास्पदां दिवाकरेण सूर्येण आप्लुष्टानि दग्धानि वातातपसंस्पर्शान्मृदुत्वाच्च श्यामीकृतानि विभूषणास्पदानि भूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवा अहनि शशाङ्कलेखामिव स्थितां त्वां पश्यतः सचेतस जीवतः कस्य पुंसः मनः न दूयते न परितप्यते । अपि तु सर्वस्यैवेत्यर्थः ॥ ४८ ॥ PROSE ORDER :-मुनिव्रतैः अतिमात्रकर्शितां दिवाकराप्लुष्ट विभूषणास्पदां दिवा शशाङ्कलेखां इव त्वां पश्यतः सचेतसः कस्य मनः न दूयते ? ॥ ४८ ॥ NOTES :-मुनिव्रतैः-मुनिजनोचितैः व्रतैः by the vows observed by ascetics (and not by ordinary people. अतिमात्रकर्शितां-अत्येव अतिमात्रम्, or अतिक्रान्ता मात्रा यस्मिन् कर्मणि तदतिमात्रम् (अव्ययीभावः), अतिमात्रं कर्शितां

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद) · पृष्ठ 146, कुल 268 में से · BharatKosha