भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 153, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 153

( १३४ ) get the desired bridegroom by a half of it, him, how- ever, I desire to know well. 50 Purport in Sanskrit :—हे पार्वति ! त्वया दीर्घकालं तपस्या कृता, इदानीमितोऽधिकतपस्यायाः काप्यावश्यकता न दृश्यते । यदि चाधिकतपसैव तेऽभीष्टं साध्यं तर्हि ममापि ब्रह्म- चर्याश्रमे कृतं तपोऽस्ति तस्यार्धमहं तुभ्यं दातुमुद्यतः, त्वं तत्सहाय- तया स्वेच्छितं वरं लब्धुं शक्नोषि । परं पूर्वमहं तस्य वरस्य विषये सर्वमपि ज्ञातुमिच्छामि ॥ ५० ॥ इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्त्तिनीं विवर्त्तितानञ्जननेत्रमैक्षत ॥ ५१ ॥ इतीति । इति इत्थं द्विजन्मना द्विजेन प्रविश्य अन्तर्गत्वा । आप्ततद्रहस्यमुद्भाव्येत्यर्थः । अभिहिता उक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् । लज्जयेति शेषः । अथो अनन्तरं परिपार्श्ववर्त्तिनीं वयस्यां सखीं विवर्तितानञ्जननेत्रं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन् कर्मणि तत्तथा ऐक्षत । नेत्रसंज्ञयैव प्रत्युत्तरं वाचयाञ्चकारेत्यर्थः ॥५१॥ Prose Order :—द्विजन्मना प्रविश्य इति अभिहिता सा मनोगतं शंसितुं न शशाक, अथो परिपार्श्ववर्त्तिनीं वयस्यां विवर्त्ति- तानञ्जननेत्रं ऐक्षत ॥ ५१ ॥ Notes :—द्विजन्मना—द्वे जन्मनी यस्य स द्विजन्मा, तेन ( विप्रेण ) by that Brahmana See notes on द्विजाति in the 40th verse above. प्रविश्य—अन्तर्गत्वा having entered into ; having penetrated her mind or the secret of