भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 188, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 188

( १७१ ) PURPORT IN SANSKRIT —ब्रह्मचारिणः प्रश्नानन्तरं पार्वती स्फटिकनिर्मितां स्वजपमालां कुङ्मलाकाराङ्गुलौ स्वहस्तस्याग्रभागे निश्चलीकृत्य—जपमालाचालनात्किञ्चित्कालं विरम्य—चिराय कथनीयविषयं कथनप्रकारञ्च निश्चित्य संक्षिप्तमुत्तरं दातुमुद्यता- भूत् ॥ ६३ ॥ यथा श्रुतं वेदविदां वर त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ ६४ ॥ किमुवाचेत्याह । यथेति । हे वेदविदां वर वैदिकश्रेष्ठ । त्वया यथाश्रुतं सम्यक् श्रुतम् । श्रुतार्थमेवाह—अयं जन स्वयमित्यर्थः । उच्चैः पदलङ्घनोत्सुकः उच्चैः पदस्य शिवलाभरूपोन्नतस्थानस्य लङ्घने आक्रमणे उत्सुकः । किमत्रायुक्तमित्यत्राह—इदंतप तदवाप्ति- साधनं किल । किलेत्यलीके । अतितुच्छत्वादसाधकमेवेत्यर्थः । तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चति इत्याशयेनाह—मनो- रथानां कामानां अगतिः अविषयः न विद्यते । न हि स्वशक्तिपर्या- लोचनया कामाः प्रवर्तन्त इति भावः ॥ ६४ ॥ PROSE ORDER :—( हे ) वेदविदां वर ! त्वया यथा श्रुतं, अयं जनः उच्चैःपदलङ्घनोत्सुकः, इदं तपः तदवाप्तिसाधनं किल, मनोरथानां अगतिर्न विद्यते ॥ ६४ ॥ NOTES :—वेदविदां—( √विद् to know+क्विप्=वित् ) वेदं विदन्ति इति वेद विदः, तेषां वेदविदां of those who know the Vedas. Decline वेदवित् as वेदवित्, वेदविदौ, वेदविदः । वेदविदम् etc. वर—श्रेष्ठ the best ; the chief. त्वया यथा

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद) · पृष्ठ 188, कुल 268 में से · BharatKosha