भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 19, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 19

( 14 ) (5) Summary of the Fifth Canto in Sanskrit. शिवेन कामे भस्मसात्कृते पार्वती नितरां निराशा जाता, शिवप्राप्त्यर्थमुपायान्तरमपश्यन्ती च तपः कर्तुं निश्चितवती । तन्माता तु तां तपसो निवर्त्तयामास, परं दृढनिश्चया स्वजनकस्याज्ञामादाय स्वसखीभिः सह गौरीशिखरं जगाम तत्र च वल्कलं, जटाः, मौञ्जीं, अक्षसूत्रञ्च गृहीत्वा तपः प्रारब्धवती । तपःकाले सा भूमावेव शेते स्म, विलासादिरहिता बभूव, पादपमृगादिषु च प्रीतियुक्ता जाता । इतस्ततस्तस्या ख्यातिर्जाता मुनयश्च तद्दर्शनार्थं तमाजग्मुः । परं यदा च तया सामान्यसमाधिना फलं न लब्धं तदा सा महत्तपः अकरोत् । ग्रीष्मर्तौ सा पञ्चाग्नि तपः कृतवती, वर्षायामपि सा अनावृतस्थाने एव तस्थौ, हेमन्तर्तौ च रात्रीः शीतवायावपि जलमध्य एव न्यषसद् । अन्ते च तया वृक्षपत्राणामपि भक्षणं त्यक्तमतः सा ‘अपर्णा’ इति संज्ञामलभत । एवमेव कठिनं तपः कुर्वन्त्यां तस्यामेकदा तदाश्रमं ब्रह्मचारिवेषधारी कश्चित्साधुराजगाम । तया यथाविधि सत्कृतः स पार्वतीं कुशलं पप्रच्छ तदनु च तदाज्ञामादाय तस्याः तपःकारणं ज्ञातुमिच्छितवान् । पार्वती तु स्वयं किमप्यकथयित्वा स्वसखीं प्रतिवक्तुमादिदेश । सा हि तस्मै पार्वत्याः हरवरणविषयकं निश्चयं तद्वियोगकृतां तदीयांदयनीयां दशाञ्च निवेदितवती । श्रुत्वेदं स तत्सत्यतां प्रति पार्वतीं पप्रच्छ, तयाऽपि हरविषयकानुरागं प्रदर्श्य सोऽर्थः समर्थितः । तदा स शिवस्य अशुभवस्तुप्रीतिमत्त्वं, सर्पकङ्कणत्वं, गजाजिनधारणत्वं, श्मशानवासत्वं, चिताभस्मलेपनत्वं, वृद्धोक्षवाहनत्वं, देहविरूपत्वं, निर्धनत्वञ्च कथयित्वा तां तन्निश्चयात् निवारयितुं चेष्टते स्म । परं पार्वत्या प्रत्येकदोषस्य परीहारः कृतः, ब्रह्मचारि- कथिताः दोषाश्च शिवस्य गुणत्वेन प्रदर्शिताः । यदा च तया बटुः पुनरपि दोषकथनोत्सुको दृष्टस्तदा क्रुद्धा सा ततो गन्तुं प्रचक्रमे, परं ब्रह्मचारिवेष- धारी शिवः स्वं रूपमास्थाय तां जग्राह आत्मानञ्च तस्यै समर्पितवान्, यच्छ्रुत्वा पार्वती गतक्लमा जाता ।