कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 20, कुल 268 में से
संदर्भ में पढ़ेंकुमारसम्भवम् —:०:— पञ्चमः सर्गः —:०:— तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥१॥ मलिनाथकृता सञ्जीवनी टीका:—तथेति । पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेण अक्ष्णोःसमीपे समक्षं पुरतः । 'अव्ययं विभक्तिसमीपसमृद्धि'—इत्यादिनाव्ययीभावः । मनोभवं मन्मथ दहता भस्म कुर्वता पिनाकिना ईश्वरेण भग्नमनोरथा भग्नः खण्डितो मनोरथ अभिलाषो यस्या सा तथोक्ता सती हृदयेन मनसा रूपं सौन्दर्य निनिन्द । धिङ् मे रूपं यद्धरमनोहरणाय नाल- मिति गर्हितवतीत्यर्थ । युक्त चैतदित्याह—तथा हि । चारुता सौन्दर्य प्रियेषु पतिषु विषये सौभाग्यफला सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्धर्त्तृ सौभाग्यं लभ्यते । नोचेद्विफलं तदिति भावः । अस्मिन् सर्गे वंशस्थं वृत्तम्— 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् । PROSE ORDER :—पार्वती तथा समक्षं मनोभवं दहता पिना-