कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 204, कुल 268 में से
संदर्भ में पढ़ें( १८७ ) funeral pyres, easy to be obtained from the bosom of the three-eyed God, will make its home on the pair of thy breasts which have been a place for sandal paste 69 PURPORT IN SANSKRIT :—हे पार्वति ! महादेवः स्वशरीरे चितायाः भस्म लिम्पति । तस्मात् समागमकाले यदा स त्वामा- लिङ्गिष्यति तदा चन्दनलेपयोग्यं ते वक्षो भस्मयुक्तं भविष्यति, यद्धि नितरामनुचितं प्रतिभाति ॥ ६९ ॥ इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥ ७० ॥ इयमिति । इयं च ते तव पुरतः आदावेव अन्या विडम्बना । परिहास इत्यर्थः । का सेत्यत्राह—ऊढया परिणीतया । वहेः कर्मणि क्तः । वारणराजहार्यया त्वया अधिष्ठितं आरूढं वृद्धं उक्षाणं वृद्धा- क्षम् । ‘अचतुर’—इत्यादिना निपातः । विलोक्य महाजनः साधु- जनः स्मेरमुखः स्मितमुखः भविष्यति उपहसिष्यति यत् । इयमिति पूर्वेण सम्बन्धः । स्मेरेति ‘नमिकम्पिस्म्यज०’—इत्यादिना रप्रत्ययः ॥ ७० ॥ PROSE ORDER :—(किं) च पुरतः इयं अन्या ते विडम्बना यद् ऊढया वारणराजहार्यया त्वया अधिष्ठितं वृद्धोक्षं विलोक्य महाजनः स्मेरमुखः भविष्यति ॥ ७० ॥ NOTES :—पुरतः—सर्वस्मात् पूर्वमेव first of all, i. e., before you go to the house of Shiva and live with him It is an indeclinable formed by adding तस् to