भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 224, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 224

( २०७ ) न कदाचिदपि विपदाभिभूयते, स आप्तकामश्च तस्मान्न स किमपि वस्तु कामयते । अतस्तस्यैभिरन्तःकरणतृष्णावर्धकैर्मङ्गलै किं प्रयोजनम् ? ॥ ७६ ॥ अकिंचनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः । स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥ ७७ ॥ अकिंचन इति । स हरः । न विद्यते किंचन द्रव्यं यस्य स अकिंचनः दरिद्रः सन् संपदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसद्मगोचरः श्मशानाश्रयः सन् त्रिलोकनाथ त्रयाणां लोकानां नाथः । ' तद्धितार्थ '—इत्यादिनोत्तरपदसमासः । स देवो भीमरूपः भयकराकार सन् शिव सौम्यरूप इति उदीर्यते उच्यते । अतः पिनाकिन हरस्य याथार्थ्यविद यथाभूतो अर्थो यथार्थस्तस्य भावो याथार्थ्य तत्त्वं तस्य विदः न सन्ति । लोकोत्तरमहिम्ना निर्लेपस्य यथाकथंचिदवस्थान न दोषायेति भाव । एतेन ' अवस्तुनिर्बन्ध- परे ' ( ५।६६ ) इति परिहृतं वेदितव्यम् ॥ ७७ ॥ PROSE ORDER —सः अकिञ्चन सन् सम्पदां प्रभव , पितृसद्मगोचरः ( सन् ) त्रिलोकनाथः, स भीमरूपः शिव इति उदीर्यते, पिनाकिनः याथार्थ्यविद् न सन्ति ॥ ७७ ॥ NOTES :—अकिञ्चनः—न विद्यते किंचन ( द्रव्यं ) यस्य सः अकिंचन. who possesses nothing i e, is poor. It is a Tatpurusha compound and not a Bahuvrihi, formed irregularly under the class मयूरव्यंसकादि by मयूरव्यं- सकादयश्च ' पा० २ । ७२. सम्पदां—सम्पत्तीनां of riches.