कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 238, कुल 268 में से
संदर्भ में पढ़ें( २२१ ) said one good point about the Lord How can he, who is celebrated as the cause of even the self-existent (Brahman ), have his birth known ? 81 PURPORT IN SANSKRIT :- हे ब्रह्मचारिन् ! शिवस्य • दोषान् दर्शयता पतितात्मना त्वया तद्विषये 'अलक्ष्यजन्मता' इति यत्कथितं तत्तु सम्यग्भाषितम् । यो हि शिवो जगदुत्पादकस्य ब्रह्मणोऽप्युत्पादकस्तस्योत्पत्तिविषये कश्चिदपि किमपि ज्ञातुं कथं शक्नोति ? ॥ ८१ ॥ अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः । ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ ८२ ॥ अलमिति । अथ वा विवादेन कलहेन अलम् । त्वया तावत् यथा येन प्रकारेण स ईश्वरः श्रुतः अशेषं कार्त्स्न्येन तथाविधः तावत्प्रकारः एव अस्तु । मम मनः तु अत्र ईश्वरे भावैकरसं भावः शृङ्गार एकोऽद्वितीयो रस आस्वाद्यो यस्य तत्तथा स्थितम् । तथा हि । कामवृत्तिः स्वेच्छाव्यवहारी वचनीयं अस्थानसङ्गापवादं न ईक्षते न विचारयति । न हि स्वेच्छासंचारिणो लोकापवादा- द्विभ्यतीति भावः ॥ ८२ ॥ PROSE ORDER :-( हे विप्र ) विवादेन अलम् , त्वया स यथा श्रुतः अशेषं तावदस्तु, मम मनः अत्र भावैकरसं स्थितम् , कामवृत्तिः वचनीयं न ईक्षते ॥ ८२ ॥ NOTES :-विवादेन-( वि + √वद् + घञ् ) वाक्कलहेन quarrels or dispute. Instrumental is used because