भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 243, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 243

( २२६ ) seems to be desirous of speaking more. Not only he who talks ill of the great, but also he who listens to him is a sinner. 83 PURPORT IN SANSKRIT :—ब्रह्मचारिणः कथितं प्रत्याख्याय ब्रह्मचारिणञ्च विवादात् विरमितुमादिश्य पार्वती स्वां सखीं कथयति—यत् 'हे सखि ! अस्माकं पुरतः स्थितोऽयं वर्णी कम्प- मानाधरत्वात् पुनरप्यधिकां शिवनिन्दां कर्त्तुमुद्यतो दृश्यते तस्मा- दितो निस्सार्यताम् । एतेन कथिता शिवनिन्दास्माभिर्न श्रवणीया यतो न केवलं स एव पुरुषः पापमवाप्नोति यो महापुरुषाणां निन्दां करोति, अपि तु सोऽपि दोषी यस्तामाकर्णयति' । ८३ ॥ इतो गमिष्याम्यथ वेति वादिनी चचाल बाला स्तनभिन्नवल्कला । स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥ ८४ ॥ सम्प्रति गन्तव्यपक्षम्राश्रयते । इत इति । अथवा इत अन्यत्र गमिष्यामि इति वादिनी वदन्ती स्तनभिन्नवल्कला स्तनाभ्यां भिन्न- वल्कला रयवशात्कुचस्रस्तचीरा बाला पार्वती चचाल । वृषराज- केतनः वृषभध्वजः च स्वरूपं आस्थाय निजरूपमाश्रित्य कृतस्मितः सन् । तां पार्वतीं समाललम्बे जग्राह ॥ ८४ ॥ PROSE ORDER :—अथवा (अहं) इतः गमिष्यामि इति वादिनी बाला स्तनभिन्नवल्कला चचाल, वृषराजकेतनः च स्वरूपं आस्थाय कृतस्मित तां समाललम्बे ॥ ८४ ॥ NOTES :—इतः—(इदं + तसिल् ) अस्मात् स्थानात् from this place वादिनी—(√वद् + णिनि + ङीप् ) वदन्ती who

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद) · पृष्ठ 243, कुल 268 में से · BharatKosha