कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 256, कुल 268 में से
संदर्भ में पढ़ें( २३६ ) विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥ महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्मदूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवलम् ॥ III. Explain any two of the following with reference to the context in Hindi or English (a) न कामवृत्तिर्वचनीयमीक्ष्यते (b) न रत्नमन्विष्यति मृग्यते हि तत् (c) पदं सहेत भ्रमरस्य पेलवं शिरीष पुष्पं न पुनः पतत्रिणः IV (a) Explain the formation of यदूढया and निषेदुषी in 2 a. (b) Parse प्रचक्रमे in Question I (a). Ans I (a) सा देवी पार्वती यदा यस्मिन् काले तावता तावत्प्रमाणेन पूर्वतपःसमाधिना पूर्वेणानुष्ठीयमान प्रकारेण तपोनियमेन काङ्क्षितं अभीष्टम् फलं लभ्यं लब्धुं शक्यं न अमंस्त मेने अशक्यम् अमंस्तेत्यर्थः तदा तत्काले अविलम्बेनेत्यर्थः स्वशरीरमार्दवम् स्वशरीरस्य कोमलतां मृदुत्वं वा अनपेक्ष्य अविगणय्य महत् दुस्तरं तपः चरितुं साधयितुं प्रचकमे उपचक्रमे । यदा पूर्वोक्त- प्रकारेण तप आचरंती पार्वती स्वाभीष्टसंसिद्धौ ससन्देहा जाता तदा सा निजदेहस्य मृदुत्वम् अनादृत्य कठिनतरं तपः कर्तुं निश्चितवती ।