कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 32, कुल 268 में से
संदर्भ में पढ़ें( १३ ) Shirisha flower may bear (the stroke of) feet of a bee, but not that of a bird. 4. PURPORT IN SANSKRIT:—व्रताचरणान्निवारयन्ती मेना- कथयत्—बाले, पार्वति; अस्माकं वेश्मन्येवानेका इष्टा इन्द्रागयाद्याः सौभाग्यप्रदाः देवतास्सन्ति; तासामाराधनयैव तेऽभीष्टप्राप्तिर्भवितुं शक्या, अतस्त्वं ता आराधय । तव कायस्त्वतिकोमलः तपोऽनुष्ठा- नञ्चातिकठिनम् । न ते देहस्तत्सोढुं क्षमः । तथा हि—कोमलं शिरीषस्य कुसुमं भ्रमरस्य पदस्थितिं भारं वा सोढुं शक्नोति महतः पत्त्रिणो भारं तु कथमपि न । तव शरीरं शिरीषपुष्पतुल्यं तपस्तु महापत्तिभारतुल्यं, अतस्त्वं तपः करणाद्विरम ॥ ४ ॥ इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् । क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ५ ॥ इतीति । इति एवम् अनुशासती उपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां सुतां पार्वतीम् उद्यमात् उद्योगात्तपोलक्षणात् नियन्तुं निवारयितुं न शशाक समर्था नाभूत् । तथा हि । ईप्सितार्थस्थिरनिश्चयं ईप्सितार्थे इष्टार्थे स्थिरनिश्चयं मनः निम्ना- भिमुखं पयः च कः प्रतीपयेत् प्रतिकूलयेत् । प्रतिनिवर्तयेदित्यर्थः । निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमितिभावः । अत्र- दीपकानुप्राणितः अर्थान्तरन्यासोऽलङ्कारः । PROSE ORDER :—इति अनुशासती मेना ध्रुवेच्छां सुतां उद्यमाद् नियन्तुं न शशाक । ईप्सितार्थस्थिरनिश्चयं मनः निम्ना- भिमुखं पयश्च कः प्रतीपयेत् ॥ ५ ॥ कु० सं०—३