कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 48, कुल 268 में से
संदर्भ में पढ़ें( २१ ) Purport in Sanskrit :-पूर्वं तु पार्वती कटिप्रदेशे क्षौमादिनिर्मितां कोमलां काञ्चीं दधार, अधुना तु व्रतनियमानुसारं तया मुञ्जतृणनिर्मिता त्रिरावृत्ता कर्कशा काञ्ची धृता । इयं काञ्ची पारुष्यात् क्षणे क्षणे तस्याः शरीरे रोमाञ्चमकरोत् , यतश्च सा तद्धारणेऽनभ्यस्तासीत्तया तस्याः कटिप्रदेशः संघर्षणेन रक्ती- कृतः ॥ १०॥ विसृष्टरागादधरानिवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥ विसृष्टेति । तया देव्या विसृष्टरागात् त्यक्तलाक्षारसरञ्जनात् अधरात् अधरोष्ठात् निवर्तितः । निसृष्टरागादिति पाठे नितरां त्यक्तलाक्षारागात् । रागत्यागेन निष्प्रयोजनत्वादिति भावः । तथा ( स्तनाङ्गरागारुणितात् ) स्तनाङ्गरागेण अरुणितात् अरुणीकृतात् पतनसमये तस्य स्तनयोरुपरोधात् इति भावः । कन्दुकात च निवर्तितः । ( कुशाङ्कुरादानपरिक्षताङ्गुलि ) कुशाङ्कुराणामादानेन लवनेन क्षताः व्रणिताः अङ्गुलयो यस्य स तथोक्त करः पाणिः अक्षसूत्रप्रणयी अक्षमालासहचरः कृत । Prose Order :-तया विसृष्टरागात् अधरात् स्तनाङ्ग- रागारुणितात् कन्दुकात च निवर्तितः करः कुशाङ्कुरादानपरि- क्षताङ्गुलि अक्षसूत्र प्रणयी कृतः ॥ ११ ॥ Notes —विसृष्टरागात । विसृष्टः-( वि+ √सृज्+क्तः ) त्यक्तः given up ; left ; removed. √ सृज् to create, changes its meaning when preceded by वि । रागः-( √रञ्ज्+ कु० सं०-४