कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 63, कुल 268 में से
संदर्भ में पढ़ें( ४४ ) बहुमन्यमानास्तस्याः दर्शनार्थं तत्समीपं गच्छन्ति स्म । सा अल्प- वयस्कापि ऋषिभिः पूजितेति विषये कविः कथयति—यद् धर्मवृतां पुरुषाणामादरानादरे तेषामायु अकिञ्चित्करं भवति । अल्पवयस्का अपि तेऽन्येषां पूज्या भवन्ति ॥ १६ ॥ विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि । नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् ॥ १७॥ विरोधीति । विरोधिसत्त्वोज्झितपूर्वमत्सरं विरोधिभिः सत्त्वैर्गो- व्याघ्रादिभिरुज्झितपूर्वमत्सर त्यक्तपूर्ववैरम् । हिंसारहितमित्यर्थः । द्रुमैः अभीष्टप्रसवार्चितातिथि अभीष्टप्रसवेनेष्टफलेणार्चिताः पूजिताः अतिथयो यस्मिंस्तत्तथोक्तम् । नवोटजाभ्यन्तरसम्भृतानलं नवानामुट- जानां पर्णशालानामभ्यन्तरेषु सम्भृताः सचिता अनला अग्नयो यस्मिंस्तत्तथोक्तम् । तत् च तपोवन पावयतीति पावनं बभूव । अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः ॥ १७ ॥ PROSE ORDER —( कि ) च विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैः अभीष्टप्रसवार्चितातिथि नवोटजाभ्यन्तरसंभृतानलं तत् तपोवनं पावनं बभूव ॥ १७ ॥ NOTES —विरोधिसत्त्वोज्झितपूर्वमत्सरम्। विरोधि—(विरोध +इनि ) विरोधो वैरं अस्यास्तीति विरोधिन्, ते विरोधिनः inimical ; hostile. उज्झित—( उज्झू+क्त ) abandoned मत्सरः—वैरम् antipathy ; hostility ‘मत्सरोऽन्यशुभद्वेषे’ इत्यमरः । पूर्वमत्सर means ‘ the natural antipathy ’ that exists between some pairs of animals such as cow and tiger, peacock and snake, etc विरोधिभिः सत्त्वैः (प्राणिभिः)