भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 74, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 74

( ५५ ) of a lotus ; and only round the long corners of the eyes of it (i e, the face) dark colour gradually made its appearance 21 PURPORT IN SANSKRIT ·—निरन्तरं सूर्याभिमुखं निरीक्षणेन मुखे विकृतिः संभवास्ति, परं पार्वत्याः मुखं, यत्सततं सूर्यदर्शनेना- भ्यासीभूतमासीत्, सूर्यस्य रश्मिभिः स्पृष्टं कमलमिवात्यन्तमशोभत न तु कमपि विकारं दधौ । सूर्यतापजनितं कार्ष्ण्यञ्च केवलं सुकुमारतरयोर्नेत्रप्रान्तयोरेव शनै. शनै प्रावर्त्तत न तु मुखस्यान्य- स्मिन् कस्मिंश्चिद्भागे । तत्कार्ष्ण्यञ्च शोभाकरमेवाभूत्, न तु कान्तिहरम् ॥ २१ ॥ अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः । बभूव तस्याः किल पारणाविधि- र्न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥२२॥ अयाचितेति । अयाचितोपस्थितम् अप्रार्थितोपनतं केवलं अम्बु उदकं रसात्मकस्य अमृतमयस्य उडुपते उडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयः च तस्याः पार्वत्याः पारणाविधि अभ्य- वहारकर्म बभूव । तावन्मात्रसाधनकोऽभूदित्यर्थः । साध्यसाधनयोर- भेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः । किल इति प्रसिद्धौ । वृक्षवृत्तिव्यतिरिक्तसाधनः । वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्य- तिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिः न बभूव । वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् । अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः ॥ २२ ॥ PROSE ORDER:—अयाचितोपस्थितं केवलं अम्बु रसात्मकस्य