भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 79, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 79

( ६० ) वह्निना निकामतप्तया तया तपात्यये नवैः वारिभिः उक्षितया भुवा सह ऊर्ध्वगः ऊष्मा अमुच्यत ॥ २३ ॥ HINDI TRANSLATION :—आकाश में चलने वाली तथा ईंधन से जलनेवाली नाना अग्नियों से अत्यधिक तपायी हुई वह (पार्वती), ग्रीष्म ऋतु के अन्त मे (वर्षा के) प्रथम पानी से सींची हुई पृथिवी के साथ ऊपर को जाने वाली गर्मी (अर्थात् भाप) छोड़ती थी ॥ २३ ॥ ENGLISH TRANSLATION —She, extremely heated by various fires - the one wandering in the sky and the others maintained by means of fuel—when drenched with the fresh waters at the end of the summer, gave out, along with the earth, heat that ascended upwards 23. PURPORT IN SANSKRIT :—यथा ग्रीष्मर्तौ सूर्यातपेनामितप्ता पृथिवी वर्षागम्भे जलसिक्ता सती वाष्पं मुञ्चति तच्च पृथिव्या ऊर्ध्वं याति, तथैव पञ्चाग्नितप आचरन्ती पार्वती सूर्यातपेन चतसृषु दिक्षु स्थापितैर्वह्निभिश्च निकामं तप्ता वर्षाप्रारम्भे जलसिक्ता सती ऊर्ध्वगामिबाष्पं त्यजति स्म ॥ २३ ॥ स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदविन्दवः ॥ २४ ॥ स्थिता इति । प्रथमोदबिन्दवः उदकस्य बिन्दवः उदकविन्दवः । ‘मन्थौदन०’ इत्यादिनाेदकशब्दस्योदादेशः । प्रथमे उदबिन्दवः । प्रथमविशेषणाद्विन्दूनां विरलत्वं बहुवचनान्नातिविरलत्वं च गम्यते । तथा च चिरत्वनाभ्यन्तरगमनयोर्निर्वाहः । तस्याः पार्वत्याः पक्ष्मसु नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः । स्थिता इत्यनेन पक्ष्मणां