कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 80, कुल 268 में से
संदर्भ में पढ़ें( ६१ ) सान्द्रत्वं क्षणमिति स्नैग्ध्यं च गम्यते । अनन्तरं ताडिताधरास्ता- डितो व्यथितोऽधर ओष्ठो यैस्ते तथोक्ताः । एतेनाधरस्य मार्दवं गम्यते । ततः पयोधरोत्सेधनिपातचूर्णिताः पयोधरयोः स्तनयोः उत्सेधे उपरिभागे निपातेन पतनेन चूर्णिताः जर्जरिताः । कुचका- ठिन्यादिति भावः । तदनु वलीषु उदररेखासु स्खलिताः । निम्नोन्नतत्वादिति भावः । इत्थं चिरेण न तु शीघ्रम् । प्रति- बन्धबाहुल्यादिति भावः । नाभिं प्रपेदिरे प्रविष्टाः । न तु निर्जग्मुः । एतेन नाभेर्गाम्भीर्यं गम्यते । अत्र प्रतिपदमर्थवत्वात्परि- करालङ्कारः ॥ २४ ॥ PROSE ORDER :—प्रथमोदबिन्दवः क्षणं तस्याः पक्ष्मसु स्थिताः, ताडिताधराः, पयोधरोत्सेधनिपातचूर्णिता वलीषु स्खलिताः नाभि चिरेण प्रपेदिरे ॥ २४ ॥ NOTES :—प्रथमोदबिन्दवः—प्रथमे(नवाः) उदकस्य(जलस्य) बिन्दवः (कणाः) प्रथमोदबिन्दवः drops of first water. उदक is optionally changed to उद् when followed by मन्थ, ओदन, सक्तु, बिन्दु etc. Cf. 'मन्थौदनसक्तुविन्दुबज्रभारहार- वीवधगाहेषु च' पा० ६. ३. ६० । पक्ष्मसु—नेत्रलोमसु at the eye- lashes. पक्ष्मन् is declined as पक्ष्म, पक्ष्मणी, पक्ष्माणि etc. स्थिता.—rested This shows that her eyelashes were dense, which is a sign of beauty, and the adverb क्षणं indicates that they were also smooth. ताडिताधराः— ताडितः अधरो यैस्ते which struck against the lower lip. पयोधरोत्सेधनिपातचूर्णिताः । उत्सेधः—( उत्—√सिध् to go +घञ् ) उन्नतिः height, elevation ; bigness ; protrusion. पयोधरयोः (स्तनयोः) उत्सेधे (उन्नतप्रदेशे) निपातेन चूर्णिताः broken on account of their falling on the elevation of कु० सं०—६