कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 85, कुल 268 में से
संदर्भ में पढ़ें( ६६ ) ENGLISH TRANSLATION :- The nights, which served as witnesses of the rigid penance of her, who slept on a slab of stone, (and) who did not live in a sheltered roof in the midst of unceasing showers accompanied by winds, watched her, as it were, with their glances in the form of (flashes of) lightning 25 PURPORT IN SANSKRIT :— प्रावृषि सततं वर्षासु जाय- मानासु, प्रबलवायौ प्रवाति, विद्युत्सु चाभियोतमानास्वपि समाधिमग्ना पार्वती शिलास्वेवानादृतप्रदेशे निषीदति स्म । तादृशे कालेऽन्यदर्शकाभावात् कविरुत्प्रेक्षते यद्रात्रय एव विद्युद्रूपैर्नेत्रैः साक्षिणत् तामवलोकयन् ॥ २५ ॥ निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥ २६ ॥ निनायेति । सा पार्वती । अत्यन्तहिमोत्किरानिलाः उत्किरन्ति क्षिपन्ति इत्युत्किराः । 'इगुपधज्ञा' इत्यादिना कः । अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पौषरात्रीः । 'पौषे तैषसहस्यौ द्वौ' इत्यमरः । उदवासतत्परा उदके वास उद्वासः । 'पेषंवासवाहनादिषु च' इत्युदादेशः । उद्वासे तत्परा आसक्ता तथा । परस्पराक्रन्दिनि परस्परमाक्रन्दिन्यन्योन्यमाक्रो- शिनि पुरः अग्रे वियुक्ते विरहिणि । वियोगं प्राप्ते इति यावत् । चक्रवाकी च चक्रवाकश्च चक्रवाकौ तयोः चक्रवाकयोः मिथुने द्वन्द्वे कृपावती सती निनाय । दुःखिषु कृपालुत्वं महतां स्वभाव इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः । 'अप्सु वासस्तु हेमन्ते क्रमशो वर्धयेत्तपः ।' इति मनुः ॥ २६ ॥