कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 88, कुल 268 में से
संदर्भ में पढ़ें( ६६ ) ENGLISH TRANSLATION —Eagerly engaged in stand- ing in water she passed the nights of Pausha in which the winds scattered snow in abundance, pitying the pair of the Chakravaka birds which were ) before her, separated and crying for each other 26 PURPORT IN SANSKRIT :—ग्रीष्मे प्रावृषि च पार्वतीकृतं तपो वर्णयित्वा कविस्तद्धैमन्तमाचरणं दर्शयति-पार्वती तुषारकण- पूरितवातप्रचुरासु पौषमासस्य शीतनिशास्वपि जले समाधि- मातिष्ठति स्म । तासु निशासु चक्रवाकयोर्मिथुनादृते नान्यः कोऽपि तत् समीपवर्त्यासीत्—चक्रवाकयोर्युगलं च विरहवेदनापीडि- तत्वात् अन्योन्यमाह्वयति स्म पार्वती च तस्मिन् युगले दयामन्व- भूत् ॥ २६ ॥ मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसंपदां सरोजसंधानमिवाकरोदपाम् ॥ २७ ॥ मुखेनेति । सा पार्वती निशि रात्रौ पद्मसुगन्धिना पद्मवत्सुग- न्धिना सुरभिणा । ‘ गन्धस्येत् ’—इत्यादिनेकारः । प्रवेपमानाधर- पत्रशोभिना प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्रं दलं तेन शोभते इति तथोक्तेन मुखेन तुषारवृष्टिक्षतपद्मसंपदां तुषारवृष्ट्या तुहिनवर्षेण क्षताः नाशिताः पद्मसंपदो यासां तासां अपां सरोज- संधानं पद्मसंघट्टनं अकरोद् इव । इत्युत्प्रेक्षालङ्कारः । पद्मान्तरं तुहिनेना ऽहन्यते तन्मुखपद्मं तु न तथेति व्यतिरेकालङ्कारो व्यज्यते इत्युभयोः संकरः ॥ २७ ॥