भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 99, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 99

( ८० ) PURPORT IN SANSKRIT :—यदा हि पार्वती एवं कठिन- तपोमग्नासीत् तस्या आश्रमम् एकोऽविज्ञातः पुरुषः समायातः, यो हि हरिणाचर्मपलाशदण्डञ्च धत्ते स्म, भाषणे पटुर्ब्रह्मवर्चसेन भासमानश्चासीत्, यश्च जटाधारी देहेन च मूर्त्तिमान् ब्रह्म- चर्याश्रम इवाभूत् ॥ ३० ॥ तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ ३१ ॥ तमिति । अतिथिषु साध्वी आतिथेयी । 'पथ्यतिथि' इत्यादिना ढञ्प्रत्ययः । 'टिढ्ढाणञ्' इत्यादिना ङीप् । पार्वती तं ब्रह्मचारिणं बहुमानपूर्वया बहुमानः पूर्वो यस्यास्तस्या, गौरव- पूर्वेत्यर्थः । सपर्यया अर्च्चया । 'सपर्यार्हणाः समाः' इत्यमरः । प्रत्युदियाय प्रत्युज्जगाम । कथं समानेऽपि तस्यास्तनादृशी प्रतिपत्ति- रत आह—साम्ये सति अपि निविष्टचेतसां स्थिरचित्तानां वपुर्विशेषेषु व्यक्तिविशेषेषु अतिशयित गौरवं यासु ताः अतिगौरवाः अतिगौरवसहिताः क्रियाः चेष्टाः भवन्ति । प्रवर्त्तन्ते इत्यर्थ । साधवो न साम्याभिनिवेशिन इति भावः ॥ ३१ ॥ PROSE ORDER :—आतिथेयी पार्वती तं बहुमानपूर्वया सपर्यया प्रत्युदियाय, साम्ये निविष्टचेतसा मपिवपुर्विशेषेषु अति- गौरवाः क्रियाः भवन्ति ॥ ३१ ॥ NOTES :—आतिथेयी—( अतिथि+एय (ढञ् )+ई अति- थिषु साध्वी इति (अतिथिसत्कारचतुरा ) attentive to guests, hospitable. The suffix ढञ् is added by