भारतकोश
लीलावती (भास्कराचार्य द्वितीय - प्राचीन भारतीय गणित सटीक)

लीलावती (भास्कराचार्य द्वितीय - प्राचीन भारतीय गणित सटीक)

Lilavati of Bhaskaracharya with Hindi Commentary

भास्कराचार्य द्वितीय (११५० ई.) / पं. रामस्वरूप शर्मा द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 12, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 12

(४) भूमिका । लक्ष्मीकान्तलवः प्रतारितभवः श्रीजैत्रपालोद्भवः सङ्ग्रामाङ्गणसञ्चितातिविभव शास्ता भुवः सिंघणः ॥ पृथ्वीशो मधुराधिपो रणमुखे काशीपतिः पातितो येनासावपि यस्य भृत्यबटुना हम्मीरवीरो जितः ॥ ६ ॥ अवततार पुरा पुरुषोत्तमो यदुकुले जगतीहितहेतवे ॥ जयति सोऽयमिमां सकलामिलामवति मामपि सिद्धमहीपतिः॥७॥ शाण्डिल्यवंशे कविचक्रवर्ती त्रिविक्रमोऽभूत्तनयोस्य जातः ॥ यो भोजराजेन कृताभिधानो विद्यापतिर्भास्करभट्टनामा ॥ ८ ॥ तस्माद्गोविन्दसर्वज्ञो जातो गोविन्दसन्निभः ॥ प्रभाकरः सुतस्तस्मात्प्रभाकर इवापरः ॥ ९ ॥ तस्मान्मनोरथो जातः सतां पूर्णमनोरथः । श्रीमान्महेश्वराचार्य्यस्ततोऽजनि कवीश्वरः ॥ १० ॥ तत्सूनुः कविवृन्दवन्दितपदः सद्द्वेदविद्यालता- कन्दः कंसरिपुप्रसादितपदः सर्वज्ञविप्रासदः ॥ यच्छिष्यैः सह कोऽपि नो विवदितुं दक्षो विवादी क्वचित् श्रीमान् भास्करकोविदः समभवत्सत्कीर्त्तिपुण्यान्वितः ॥ ११ ॥ लक्ष्मीधराख्योऽखिलसूरिमुख्यो वेदार्थवित्तार्किकचक्रवर्ती ॥ क्रतुक्रियाकाण्डविचारसारो विशारदो भास्करनन्दनोऽभूत् ॥ १२॥ सर्वशास्त्रार्थदक्षोयमिति मत्वा पुरादतः ॥ जैत्रपालेन यो नीतः कृतश्च विबुधाग्रणीः ॥ १३ ॥ श्लोकः- तस्मात्सुतः सिंघणचक्रवर्ती दैवज्ञवर्य्योऽजनि चङ्गदेवः ॥ श्रीभास्कराचार्य्यनिबद्धशास्त्रविस्तारहेतोः कुरुते मठं यः ॥ १४ ॥ भास्कररचितग्रन्थाः सिद्धान्तशिरोमणिप्रमुखाः ॥ तद्वंश्यकृताश्चान्ये व्याख्येया मन्मठे नियतम् ॥ १५ ॥