भारतकोश
महाभारत (खंड १) - आदि व सभा पर्व

महाभारत (खंड १) - आदि व सभा पर्व

Mahabharata (Vol 1) - Adi and Sabha Parva

महर्षि कृष्णद्वैपायन वेदव्यास द्वारा

DevanagariSanskritpublished2,256 पृष्ठ

पृष्ठ 1433, कुल 2256 में से

संदर्भ में पढ़ें
पृष्ठ 1433

न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् । संरक्ष्यमाणान् पार्थेन त्रिदशानिव वज्रिणा ॥ २५ ॥ अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश । वहाँ रहते समय कोई तुम्हें बाधा नहीं दे सकता; क्योंकि जैसे वज्रधारी इन्द्र देवताओंकी रक्षा करते हैं, उसी प्रकार कुन्तीनन्दन अर्जुन वहाँ तुमलोगोंकी भलीभाँति रक्षा करेंगे। तुम आधा राज्य लेकर खाण्डवप्रस्थमें चलकर रहो ॥ २५ १/२ ॥

(धृतराष्ट्र उवाच

अभिषेकस्य सम्भारान् क्षत्तरानय मा चिरम् । अभिषिक्तं करिष्यामि अद्य वै कुरुनन्दनम् ॥ ब्राह्मणा नैगमश्रेष्ठाः श्रेणीमुख्याश्च सर्वशः । आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः ॥ पुण्याहं वाच्यतां तात गोसहस्रं तु दीयताम् । ग्राममुख्याश्च विप्रेभ्यो दीयन्तां सहदक्षिणाः ॥ अङ्गदे मुकुटं क्षत्तः हस्ताभरणमानय ॥ मुक्तावलींश्च हारं च निष्कादीन् कुण्डलानि च । कटिबन्धंश्च सूत्रं च तथोदरनिबन्धनम् ॥ अष्टोत्तरसहस्रं तु ब्राह्मणाधिष्ठिता गजाः । जाह्नवीसलिलं शीघ्रमानयन्तु पुरोहितैः ॥

महाभारत (खंड १) - आदि व सभा पर्व · पृष्ठ 1433, कुल 2256 में से · BharatKosha