महाभारत (खंड १) - आदि व सभा पर्व
Mahabharata (Vol 1) - Adi and Sabha Parva
महर्षि कृष्णद्वैपायन वेदव्यास द्वारा
पृष्ठ 1667, कुल 2256 में से
संदर्भ में पढ़ेंसुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः । घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥ १३ ॥ विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः । दशग्रीवश्च वाली च मेघवासा दशावरः ॥ १४ ॥ टिट्टिभो विटभूतश्च संह्लादश्चेन्द्रतापनः । दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः ॥ १५ ॥ स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः । सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥ १६ ॥ ते तस्यां वरुणं देवं धर्मपाशधरं सदा । उपासते महात्मानं सर्वे सुचरितव्रताः ॥ १७ ॥ विरोचनपुत्र राजा बलि, पृथ्विविजयी नरकासुर, प्रह्लाद, विप्रचित्ति, कालखंज दानव, सुहनु, दुर्मुख, शंख, सुमना, सुमति, घटोदर, महापार्श्व, क्रथन, पिठर, विश्वरूप, स्वरूप, विरूप, महाशिरा, दशमुख रावण, वाली, मेघवासा, दशावर, टिट्टिभ, विटभूत, संह्लाद तथा इन्द्रतापन आदि सभी दैत्यों और दानवोंके समुदाय मनोहर कुण्डल, सुन्दर हार, किरीट तथा दिव्य वस्त्राभूषण धारण किये उस सभामें धर्मपाशधारी महात्मा वरुणदेवकी सदा उपासना करते हैं। वे सभी दैत्य वरदान पाकर शौर्यसम्पन्न हो मृत्युरहित हो गये हैं। उनका चरित्र एवं व्रत बहुत उत्तम है ॥ १२—१७ ॥ तथा समुद्राश्चत्वारो नदी भागीरथी च सा । कालिन्दी विदिशा वेणा नर्मदा वेगवाहिनी ॥ १८ ॥ चारों समुद्र, भागीरथी नदी, कालिन्दी, विदिशा, वेणा, नर्मदा, वेगवाहिनी, ॥ १८ ॥ विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती । इरावती वितस्ता च सिन्धुर्देवनदी तथा ॥ १९ ॥ विपाशा, शतद्रु, चन्द्रभागा, सरस्वती, इरावती, वितस्ता, सिन्धु, देवनदी, ॥ १९ ॥ गोदावरी कृष्णवेणा कावेरी च सरिद्वरा । किम्पुना च विशल्या च तथा वैतरणी नदी ॥ २० ॥ गोदावरी, कृष्णवेणा, सरिताओंमें श्रेष्ठ कावेरी, किम्पुना, विशल्या, वैतरणी नदी, ॥ २० ॥ तृतीया ज्येष्ठीला चैव शोणश्चापि महानदः । चर्मण्वती तथा चैव पर्णाशा च महानदी ॥ २१ ॥ तृतीया, ज्येष्ठीला, महानद शोण, चर्मण्वती, पर्णाशा, महानदी, ॥ २१ ॥ सरयूर्वारवत्याथ लाङ्गली च सरिद्वरा । करतोया तथात्रेयी लौहित्यश्च महानदः ॥ २२ ॥