भारतकोश
महाभारत (खंड १) - आदि व सभा पर्व

महाभारत (खंड १) - आदि व सभा पर्व

Mahabharata (Vol 1) - Adi and Sabha Parva

महर्षि कृष्णद्वैपायन वेदव्यास द्वारा

DevanagariSanskritpublished2,256 पृष्ठ

पृष्ठ 479, कुल 2256 में से

संदर्भ में पढ़ें
पृष्ठ 479

विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ।। २२ ।। चित्रधर्मेति विख्यातः क्षितावासीत् स पार्थिवः । हरस्त्वरिहरो वीर आसीद् यो दानवोत्तमः ।। २३ ।। सुबाहुरिति विख्यातः श्रीमानासीत् स पार्थिवः । अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ।। २४ ।। बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ । निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः ।। २५ ।। मुञ्जकेश इति ख्यातः श्रीमानासीत् स पार्थिवः । निकुम्भस्त्वजितः संख्ये महामतिरजायत ।। २६ ।। भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः । शरभो नाम यस्तेषां दैतेयानां महासुरः ।। २७ ।। पौरवो नाम राजर्षिः स बभूव नरोत्तमः । कुपटस्तु महावीर्यः श्रीमान् राजन् महासुरः ।। २८ ।। सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः । क्रथस्तु राजन् राजर्षिः क्षितौ जज्ञे महासुरः ।। २९ ।। पार्वतेय इति ख्यातः काञ्चनाचलसंनिभः । द्वितीयः शलभस्तेषामसुराणां बभूव ह ।। ३० ।। प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः । चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः ।। ३१ ।। चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः । अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः ।। ३२ ।। ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः । मृतपा इति विख्यातो य आसीदसुरोत्तमः ।। ३३ ।। पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम । गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ।। ३४ ।। द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः । मयूर इति विख्यातः श्रीमान् यस्तु महासुरः ।। ३५ ।। स विश्व इति विख्यातो बभूव पृथिवीपतिः । सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः ।। ३६ ।। कालकीर्तिरिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः । चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ।। ३७ ।। शुनको नाम राजर्षिः स बभूव नराधिपः । विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ।। ३८ ।।