भारतकोश
महाभारत (खंड १) - आदि व सभा पर्व

महाभारत (खंड १) - आदि व सभा पर्व

Mahabharata (Vol 1) - Adi and Sabha Parva

महर्षि कृष्णद्वैपायन वेदव्यास द्वारा

DevanagariSanskritpublished2,256 पृष्ठ

पृष्ठ 478, कुल 2256 में से

संदर्भ में पढ़ें
पृष्ठ 478

यस्तु राजञ्छिबिर्नाम दैतेयः परिकीर्तितः । द्रुम इत्यभिविख्यातः स आसीद् भुवि पार्थिवः ॥ ८ ॥ राजन्! जो शिबि नामका दैत्य कहा गया है, वही इस पृथ्वीपर द्रुम नामसे विख्यात राजा हुआ ॥ ८ ॥ बाष्कलो नाम यस्तेषामासीदसुरसत्तमः । भगदत्त इति ख्यातः स जज्ञे पुरुषर्षभः ॥ ९ ॥ असुरोंमें श्रेष्ठ जो बाष्कल था, वही नरश्रेष्ठ भगदत्तके नामसे उत्पन्न हुआ ॥ ९ ॥ अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् । तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥ १० ॥ पञ्चैते जज्ञिरे राजन् वीर्यवन्तो महासुराः । केकयेषु महात्मानः पार्थिवर्षभसत्तमाः । केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् ॥ ११ ॥ अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः । स्वर्भानुरिति विख्यातः श्रीमान् यस्तु महासुरः ॥ १२ ॥ उग्रसेन इति ख्यात उग्रकर्मा नराधिपः । यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः ॥ १३ ॥ अशोको नाम राजाभून्महावीर्योऽपराजितः । तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः ॥ १४ ॥ दैतेयः सोऽभवद् राजा हार्दिक्यो मनुजर्षभः । वृषपर्वेति विख्यातः श्रीमान् यस्तु महासुरः ॥ १५ ॥ दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः । अजकस्त्ववरो राजन् य आसीद् वृषपर्वणः ॥ १६ ॥ स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः । अश्वग्रीव इति ख्यातः सत्त्ववान् यो महासुरः ॥ १७ ॥ रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः । सूक्ष्मस्तु मतिमान् राजन् कीर्तिमान् यः प्रकीर्तितः ॥ १८ ॥ बृहद्रथ इति ख्यातः क्षितावासीत् स पार्थिवः । तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः ॥ १९ ॥ सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः । इषुपान्नाम यस्तेषामसुराणां बलाधिकः ॥ २० ॥ नग्नजिन्नाम राजासीद् भुवि विख्यातविक्रमः । एकचक्र इति ख्यात आसीद् यस्तु महासुरः ॥ २१ ॥ प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ।

महाभारत (खंड १) - आदि व सभा पर्व · पृष्ठ 478, कुल 2256 में से · BharatKosha