भारतकोश
महाभारत (खंड ६) - अनुशासन, आश्वमेधिक, आश्रमवासिक, मौसल, महाप्रस्थानिक, स्वर्गारोहण व हरिवंश पर्व

महाभारत (खंड ६) - अनुशासन, आश्वमेधिक, आश्रमवासिक, मौसल, महाप्रस्थानिक, स्वर्गारोहण व हरिवंश पर्व

Mahabharata (Vol 6) - Anushasana to Harivamsa Parva

महर्षि कृष्णद्वैपायन वेदव्यास द्वारा

DevanagariSanskritpublished2,566 पृष्ठ

पृष्ठ 2087, कुल 2566 में से

संदर्भ में पढ़ें
पृष्ठ 2087

दम्भार्थमपि यद् दत्तं यत् पाखण्डिहितं नृप ।। शूद्राचाराय यद् दत्तं यद् दत्त्वा चानुकीर्तितम् । रोषयुक्तं च यद् दत्तं यद् दत्तमनुशोचितम् ।। दम्भार्जितं च यद् दत्तं यच्च वाप्यनृतार्जितम् । ब्राह्मणस्वं च यद् दत्तं चौर्येणाप्यर्जितं च यत् ।। अभिशस्ताहृतं यत्तु यद् दत्तं पतिते द्विजे । निर्ब्रह्माभिहृतं यत्तु यद् दत्तं सर्वयाचकैः ।। व्रात्यैस्तु यद्धृतं दानमारूढपतितैश्च यत् । यद् दत्तं स्वैरिणीभर्त्तुः श्वशुराननुवर्त्तिने ।। यद् ग्रामयाचकहृतं यत् कृतघ्नहृतं तथा । उपपातकिने दत्तं वेदविक्रयिणे च यत् ।। स्त्रीजिताय च यद् दत्तं यद् दत्तं राजसेविने । गणकाय च यद् दत्तं यच्च कारणिकाय च ।। वृषलीपतये दत्तं यद् दत्तं शस्त्रजीविने । भृतकाय च यद् दत्तं व्यालग्राहिहृतं च यत् ।। पुरोहिताय यद् दत्तं चिकित्सकहृतं च यत् । यद् वणिक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने ।। यच्छूद्रजीविने दत्तं यच्च देवलकाय च । देवद्रव्याशिने दत्तं यद् दत्तं चित्रकर्मिणे ।। रङ्गोपजीविने दत्तं यच्च मांसोपजीविने । सेवकाय च यद् दत्तं यद् दत्तं ब्राह्मणब्रुवे ।। अद्देशिने च यद् दत्तं दत्तं वार्धुशिकाय च । यदनाचारिणे दत्तं यत्तु दत्तमनग्नये ।। असंध्योपासिने दत्तं यच्छूद्रग्रामवासिने । यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत् ।। नास्तिकाय च यद् दत्तं धर्मविक्रयिणे च यत् । वराकाय च यद् दत्तं यद् दत्तं कूटसाक्षिणे ।। ग्रामकूटाय यद् दत्तं दानं पार्थिवपुङ्गव । वृथा भवति तत्सर्वं नात्र कार्या विचारणा ।।

राजन्! जो दान अश्रद्धा या अपमानके साथ दिया जाता है, जिसे दिखावेके लिये दिया जाता है, जो पाखण्डीको प्राप्त हुआ है, जो शूद्रके समान आचरणवाले पुरुषको दिया जाता है, जिसे देकर अपने ही मुँहसे बारंबार बखान किया गया है, जिसे रोषपूर्वक दिया गया है तथा जिसको देकर पीछेसे उसके लिये शोक किया जाता है, जो दम्भसे उपार्जित