महानिर्वाण तन्त्र (हिन्दी अनुवाद सहित)
Mahanirvana Tantra with Hindi Translation
शिव-पार्वती संवाद द्वारा
स्रोत: कल्याण मन्दिर · कल्याण मन्दिर · 1950 (उद्गम)
पृष्ठ 136, कुल 139 में से
संदर्भ में पढ़ेंपरिशिष्ट महा-निर्वाण तन्त्र के तीन अनूठे उद्धरण वङ्ग प्रदेश के मेहार-पीठ (जिला टिपरा, बांग्लादेश) के दश-महाविद्या-सिद्ध श्री सर्वानन्द-नाथ १६वीं शती में प्रसिद्ध तांत्रिक सिद्ध महापुरुष हो गए हैं। आपकी कृति 'सर्वोल्लास-तन्त्र' एक संग्रहणीय साधकोपयोगी संग्रह-ग्रन्थ है। इसमें 'महा-निर्वाण-तंत्र' के तीन उद्धरण मिलते हैं, जो प्रचलित संस्करणों में उपलब्ध नहीं हैं। उन्हें यहाँ पहले-पहल उद्धृत किया जा रहा है— (१) 'सर्वोल्लास तन्त्र' के छठे उल्लास (लय-प्रकरणं) में— श्रीशिव उव. - महा-काली परात्मा च चणकाकार-रूपिणी । मायाच्छादितात्मानं तन्मध्ये सम-भावतः ॥ महा-रुद्रः स एवात्मा महा-विष्णुः स एव हि । महा-ब्रह्मा स एवात्मा नाम-मात्र-विभेदकः ॥ एक-मूर्तिस्त्रि-नामानि ब्रह्म-विष्णु-महेश्वराः । नाना-भाव-मनो यस्य तस्य मुक्तिर्न विद्यते ॥ ब्रह्माण्डास्तत्र जायन्ते लक्ष लक्षं सुलोचने ! तत्र ब्रह्मा तत्र विष्णुस्तत्र रुद्रः प्रविन्धसेत् ॥ केचिद् वदन्ति स ब्रह्मा केचिद् विष्णुः प्रकथ्यते । केचिद् वदन्ति रुद्रः स एको देवो निरंजनः ॥ आद्या-शक्ति-युतो देवश्चणकाकार-रूपकः । आनन्द-घन-संयुक्तः प्रभुः प्रकृति-रूप-धृक् ॥ निर्गुणस्यालयः साक्षान्महा-काल्यालयः प्रिये ! तत्रैव वर्तते नित्यश्चणकाकार-रूपकः ।' तस्य रूप-परं नित्यं परानन्द-परात्परं । नित्यानन्द-करा देवि ! कालिका दक्षिणे स्थिता ॥ आद्या-शक्तिर्महा-माया देव-निर्माण-कारिणी । जायते च क्षितौ वृक्षो यथा पृथ्व्यां प्रलीयते ॥ तोयात् तु बुद्बुदं जातं यथा तोये प्रलीयतें । जलदे तड़िदुत्पत्तिर्यथा मेघे प्रलीयमते ॥ तथा ब्रह्मादयो देवाः कालिकायां प्रजायते । प्रलय-काले तु पुनस्तस्यां प्रलीयते ॥ शक्ति-ज्ञानं विना देवि ! मुक्तिर्हास्याय कल्प्यते । एकांशेन भवेद् ब्रह्मा एकांशेन जनार्दनः ॥ एकांशेन भवेच्छम्भुः कालिकायाः सुलोचने ! अपरा सा महा-काली नद्यादीनां समुद्र-वत् ॥ गोष्पदे च यथा तोयं ब्रह्माद्या देवतास्तथा । गोष्पदे किं विजानीयात् समुद्रस्य जलं शिवे ॥ तेन ब्रह्मा न जानाति विष्णुः किं वेत्ति शङ्करः । सृष्टि-कर्त्या यदा काल्या पाल्यन्ते च सुरादयः ॥ तदा प्रलय-काले तु पुनस्तस्यां प्रलीयते । अतो निर्वाणदा काली पुरुषस्य च शर्मदा ॥ चणकाकार-रूपेण प्रकाशं च मनोमयं । यथा सूर्यो जगद् भाति ज्ञेयं च चणकं तथा ॥ [ १२६ ]