भारतकोश
महानिर्वाण तन्त्र (हिन्दी अनुवाद सहित)

महानिर्वाण तन्त्र (हिन्दी अनुवाद सहित)

Mahanirvana Tantra with Hindi Translation

शिव-पार्वती संवाद द्वारा

स्रोत: कल्याण मन्दिर · कल्याण मन्दिर · 1950 (उद्गम)

DevanagariSanskritpublished139 पृष्ठ

पृष्ठ 137, कुल 139 में से

संदर्भ में पढ़ें
पृष्ठ 137

महा-निर्वाण तन्त्र के तीन अनूठे उद्धरण । १२७ एका शक्तिद्विधा भूत्वा मध्ये पुरुष-भाषितं । पुनः प्रलीन-कालेऽपि द्विधैकं पुंस-गोपितं ॥ नित्यानित्य-द्विधैकात्मा द्विधा भावाश्रिताः पुमान् । नित्यानित्यं यदैकात्मा तदैकं ब्रह्म-विग्रहं ॥ (२) 'सर्वोल्लास तन्त्र' के ५८वें उल्लास (हंस-बीज-माहात्म्यं) में— श्रीदेव्युवाच-- देवेश ! प्राण-नाथेश ! त्रिगुण ! त्रिगुणात्मक ! अधुना हंस-बीजस्य माहात्म्यं कथय प्रिय ॥ श्रीशिव उवाच— हंस-बीजस्य माहात्म्यं गदितुं नैव शक्यते । तव स्नेहेन बद्धोऽहं किञ्चिद्-भावं प्रकाशितं ॥ देवालयं भवेद् देहं हंसेन मनुना शिवे ! हंस-बीजं समाश्रित्य देही देहे सदा स्थितः ॥ हकारः शङ्करश्चैव सकारः शक्तिरीरितः । शिव-शक्त्यात्मकं मन्त्रमजपेति प्रकीर्त्तितं ॥ षट्-शतानि दिवा-रात्रौ सहस्राण्येक-विंशतिः । अजपा नाम गायत्रीं जीवो जपति सर्वदा ॥ श्रीपार्वत्युवाच— शिव-शक्त्यात्मकं मन्त्रं जीवो जपति सर्वदा । प्रजपेत् केन मूलं च सोऽहं केन विचिन्तयेत् ॥ श्रीशिव उवाच— कुम्भकं स्याद् 'हं'-कारेण 'सः'-कारेणापि रेचनं । कुम्भकेऽपि जपेन्मन्त्रं प्रत्येके प्रत्येकाक्षरं ॥ (३) 'सर्वोल्लास तन्त्र' के ५६वें उल्लास (ध्यान-त्रयस्य माहात्म्यं) में— श्रीशिव उवाच— स्व-देहे पूजयेद् देवं नान्य-देहे कदाचन । स्व-गेहे पायसं त्यक्त्वा भिक्षामटति दुर्मतिः ॥ स्थूल-ध्यानान्महा-देवस्तेजो-ध्यानाद्वि शङ्करी । सूक्ष्म-ध्यानाद् भवेन्मुक्तिराङ्कारं तत्र संभवं ॥ भिन्न-देहं शिवं शक्ति तेजोध्यानमभेदकं । शिव-शक्त्यात्मकं सूक्ष्मं ॐ तत् सद् व्यापितं जगत् ॥ विन्दु-त्रयं नाद-युग्मं विन्दु-युग्मं च नादकं । विन्दुमेकं नाद-युग्मं ॐकारं ब्रह्म-बोधकं ॥ कुण्डलिन्यंकुशाकारा विन्दु-रूपः सदाशिवः । अङ्क-मात्रं महादेवि ! शिव-शक्ति-प्रबोधकं ॥ विन्दु-द्वयं विना देवि ! किञ्चिन्मात्रं न जायते । वामे च परमा शक्तिर्दक्षिणे परमः शिवः ॥ शिव-शक्त्यात्मकं ब्रह्मवाचातीतं सुनिर्मलं । तकारं शङ्करं ज्ञेयं तकारं पुंस्त्व-विग्रहं ॥ ब्रह्म-बोध-मयं देवि ! तत् शब्दं शक्ति-गोपितं । विन्दु-युग्मं नादमेकं तकारं ब्रह्म-बोधकं ॥ तत्-शब्दं परमेशानि ! ॐकारस्यापि बोधकं । बिना स्वरेण देवेशि ! व्यञ्जनं नैव तिष्ठति ॥