महानिर्वाण तन्त्र (हिन्दी अनुवाद सहित)
Mahanirvana Tantra with Hindi Translation
शिव-पार्वती संवाद द्वारा
स्रोत: कल्याण मन्दिर · कल्याण मन्दिर · 1950 (उद्गम)
पृष्ठ 53, कुल 139 में से
संदर्भ में पढ़ें४४ | हिन्दी महा-निर्वाण तन्त्र किशोरी कल-कण्ठा च कल-नाद-निनादिनी । कादम्बरी-पान-रता तथा कादम्बरी-प्रिया ॥७॥ कपाल-पात्र-निरता कङ्काल-माल्य-धारिणी । कमलासन-सन्तुष्टा कमलासन-वासिनी ॥८॥ कमलालय-मध्यस्था कमलामोद-मोदिनी । कल-हंस-गतिः क्लैव्य-नाशिनी काम-रूपिणी ॥६॥ काम-रूप-कृतावासा काम-पीठ-विलासिनी । कमनीया कल्पलता कमनीय-विभूषणा ॥१०॥ कमनीय-गुणाराध्या कोमलाङ्गी कृशोदरी । कारणामृत-सन्तोषा कारणानन्द-सिद्धिदा ॥११॥ कारणानन्द-जापेष्टा कारणार्चन-हर्षिता । कारणार्णव-सम्मग्ना कारण-व्रत-पालिनी ॥१२॥ कस्तूरी-सौरभामोदा कस्तूरी-तिलकोज्ज्वला । कस्तूरी-पूजन-रता कस्तूरी-पूजक-प्रिया ॥१३ कस्तूरी-दाह-जननी कस्तूरी-मृग-तोषिणी । कस्तूरी-भोजन-प्रीता कर्पूरामोद-मोदिता ॥१४ कर्पूर-मालाभरणा कर्पूर-चन्दनोक्षिता । कर्पूर-कारणाल्हादा कर्पूरामृत-पायिनी ॥१५ कर्पूर-सागर-स्नाता कर्पूर-सागरालया । कूर्च-बीज-जप-प्रीता कूर्च-जाप-परायणा ॥१६ कुलीना कौलिकाराध्या कौलिक-प्रिय-कारिणी । कुलाचारा कौतुकिनी कुल-मार्ग-प्रदर्शिनी ॥१७ काशीश्वरी कष्ट-हर्त्री काशीश-वर-दायिनी । काशीश्वर-कृतामोदा काशीश्वर-मनोरमा ॥१८ कल-मञ्जीर-चरणा क्वणत्-काञ्ची-विभूषणा । काञ्चनाद्रि-कृतागारा काञ्चनाचल-कौमुदी ॥१६ काम-बीज-जपानन्दा काम-बीज-स्वरूपिणी । कुमतिघ्नी कुलीनाति-नाशिनी कुल-कामिनी ॥२० क्रीं ह्रीं श्रो-मन्त्र-वर्णेन काल-कण्टक-घातिनी । इत्याद्या-कालिका-देव्याः शतनाम प्रकीर्त्तितम् ॥२१ ककार-कूट-घटितं काली-रूप-स्वरूपकम् ॥२२॥ फल-श्रुति पूजा-काले पठेद्यस्तु कालिका-कृत-मानसः । मन्त्र-सिद्धिर्भवेदाशु तस्य कालो प्रसीदति ॥ बुद्धिं विद्यां च लभते गुरोरादेश-मात्रतः । धन-वान् कीर्त्ति-मान् भूयाद् दान-शीलो दयान्वितः ॥ पुत्र-पौत्र-सुखैश्वर्यैर्मोदते साधको भुवि । भौमावस्या निशा-भागे म-पञ्चक-समन्वितः ॥ पूजयित्वा महाकालीमाद्यां त्रि-भुवनेश्वरीम् । पठित्वा शत-नामानि साक्षात् काली-मयो भवेत् ॥ नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन । विद्यायां वाक्-पतिः साक्षात् धने धनपतिर्भवेत् ॥ समुद्र इव गाम्भीर्ये बले च पवनोपमः । तिग्मांशुरिव दुष्प्रेक्ष्यः शशि-वत् शुभ-दर्शनः ॥ रूपे मूर्त्ति-धरः कामो योषितां हृदयङ्गमः । सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ॥ यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् । तं तं काममवाप्नोति श्रीमदाद्या-प्रसादतः ॥ रणे राज-कुले द्यूते विवादे प्राण-सङ्कटे । दस्यु-ग्रस्ते ग्राम-दाहे सिंह-व्याघ्रावृते तथा ॥ अरण्ये प्रान्तरे दुर्गे ग्रह-राज-भयेऽपि वा। ज्वर-दाहे चिर-व्याधौ महा-रोगादि-संकुले ॥