भारतकोश
महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda

हरविलास सारदा द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 264, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 264

Appendix.

अप्रमाणितजितकाशित्वाभिमानस्य निजभुजोर्जितसमुपार्जितानेकभद्र- गजेन्द्रस्य म्लेच्छमहीपालव्यालचक्रवालविदलनविहंगमैन्द्रस्य प्रचंडदो- र्दंडखंडिताभिनिवेशनानादेशनरेशभालमालालालितपादारविंदस्य अस्ख- लितललितलक्ष्मीविलासगोविंदस्य कुनयगहनदहनदवानलायमानप्रता- पव्यापलायमानसकलवलूलप्रतिकूलक्ष्मापश्वापदवृंदस्य प्रवलपराक्रमा- क्रांतढिल्लीमंडल गूर्जरत्रासुरत्राणदत्तातपत्रप्रथितहिंदुसुरत्राणबिरुदस्य सुवर्णसत्रागारस्य षड्दर्शनधर्माधारस्य चतुरंगवाहिनीवाहिनीपारावार- स्य कीर्त्तिधर्मप्रजापालन सत्त्वादिगुणक्रियमाण श्रीराम युधिष्ठिरादिनरे- श्वरानुकारस राणाश्रीकुंभकर्णसर्वोर्वीपतिसार्वभौमस्य ४१ विजय- मानराज्ये तस्य प्रसादपात्रेण विनयविवेकधैर्यादार्य्यशुभकर्मनिर्मलशी- लाद्यद्भुतगुणमणिमयाभरणाभासुरगात्रेण श्रीमदहम्मदसुरत्राणदत्तफुर- माणसाधुश्रीगुणराजसंघपतिसाहचर्य्यकृताश्चर्य्यकारिदेवालयाडंबरपुरः- सरश्रीशत्रुंजयादितीर्थयात्रेण अजाहरिपिंडरवाटकसालेरादिवहुस्थानन- वीनजैनविहारजीर्णोद्धारपदस्थापनाविषमसमयसत्रागारनानाप्रकारपरो- पकारश्रीसंघसत्काराद्यगण्यपुण्यमहर्घक्रयाणकपूर्य्यमाणभवार्णवतारण- क्षममनुष्यजन्मयानपात्रेण प्राग्वाटवंशावतंससं० सांगरसुत सं०कुरपाल भा० कामलदेपुत्रपरमार्हत सं० धरणाकेन ज्येष्ठभ्रातृ सं० रत्न भा० र- त्नादेपुत्रसं० लाषाराजासोनासालिगस्वभा० सं० धारलदेपुत्रजाञ्जाजाव- डादिप्रवर्द्धमानसंतानयुतेन राणपुरनगरे राणाश्रीकुंभकर्णनरेंद्रेण स्व- नाम्ना निवेशिततदीयसुप्रसादादेशतस्त्रैलोक्यदीपकाभिधानः श्रीचतुर्मु- खयुगादीश्वरविहारः कारितः प्रतिष्ठितः श्री वृहत्तपागच्छे श्रीजगचंद्र- सूरिश्रीदेवेंद्रसूरिसंताने श्रीमत्श्रीदेवसुन्दरसूरिपट्टप्रभाकरपरमगुरु- सुविहितपुरंदरगच्छाधिराजश्रीसोमसुंदरसूरिभिः ॥ कृतमिदं च सूत्र- धारदेपाकस्य अयं च श्रीचतुर्मुखविहार आचंद्रार्कं नंदतात् ॥ शुभं भवतु ॥

207